SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥ ४९ ॥ विदधुर्गृहदेवीनां स्नानपूजादिकं मुहुः । नोपशान्तिरभून्मारेस्तथापि हि मनागपि ।। ९६ ।। ग्रामान्तराण्ययुग्रम्या व्यन्तरः स तु कोपनः । युवराजो यमस्येवामारयत्तांस्तथापि हि ।। ९७ । ग्राम्या व्यचिन्तयश्चैवं कोऽप्यस्माभिर्विरोधितः । देवो दैत्योऽथवा यक्षः क्षेत्रपालोऽपरोऽपि वा ।। ९८ ।। यामस्तत्रैव तद्ग्रामे तत्प्रसादनहेतवे । एवं विमृश्य ते भूयः संभूयेह समाययुः ।। ९९ ।। ते स्नाताः श्वेतवसना उत्तरासंगधारिणः । मुक्तकेशाश्चत्वरेषु त्रिकेषूद्यानभूमिषु ।। १०० ।। भूतगेहेष्वथान्यत्र क्षिपन्तः परितो बलिम् । ऊर्ध्वाननाः प्राञ्जलयो दीनास्या एवमूचिरे ॥१०१ ।। ।। युग्मम्॥ भोः ! सुरा असुरा यक्षरक्षः किंपुरुषादयः । यत्प्रमादान्मदाद्वागस्तन्नः क्षाम्यन्तु सर्वथा ॥ १०२ ॥ कोपः प्रणामावधिको महतां हि महानपि । तत्प्रसीदतु यः कश्चिदस्त्यस्माभिर्विरोधितः ।। १०३ ।। व्यन्तरः सोऽन्तरिक्षस्थोऽथाब्रवीद्रे दुराशयाः ! । लुब्धा लुब्धकसंकाशाः ! क्षमणं कुरुताधुना ॥ १०४ ॥ तदानीं वृषभस्य क्षुत्तृषाक्रान्तस्य तस्य तु । वणिग्दत्तधनेनापि दत्तं नाम्भस्तृणादि यत् ।। १०५ ।। समृत्वा वृषभोऽभूवं शूलपाणिरहं सुरः । तेन वैरेण वः सर्वान्मारयामि स्मरन्तु तत् ।। १०६ ॥ तच्छ्रुत्वा ते पुनस्तस्मै धूपोत्क्षेपणतत्पराः । लुठन्तो भूतले दीना भूयोऽप्येवं बभाषिरे ।। १०७ ।। अपराद्धमदोऽस्माभिस्तथापि क्षाम्य शाम्य च । शरणं त्वां प्रपन्नाः स्मो ह्यनन्यशरणा वयम् ॥ १०८ ॥ १ पतः । २ राधि । ३ राधि । दशमं पर्व तृतीयः सर्गः श्रीमहावीर जिनचरितम् । शूलपाणियक्षप्रसंग: । ॥ ४९ ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy