________________
त्रिषष्टिशलाकापुरुषारते ।।४८॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
अतिभाराकर्षणेन मुखेन रुधिरं वमन् । स महोक्षः पपातोया तेजवाजीव सात्विकः ।। ८४ ।। संभाष्य च वणिग्ग्राम्यानुवाच वृषसाक्षिकम् । पाल्योऽयं वृषभो नगासीकृतजीवितवन्मम ।। ८५ ।। वृषस्य तृणपानीयनिमित्तं च धनं बहु । ग्राम्याणामर्पयामास स्वामिधर्मो ह्ययं खलु ।। ८६ ।। ततो वणिक् स्वयमपि चारिपानीयढौकनात् । “प्रियाकृत्य महोक्षाय सासदृक् परतो ययौ ।। ८७ ॥ धनमादाय ते ग्राम्यास्तृणवार्यादिना वृषम् । प्रतिचक्रुर्न तं पापाः कुवैद्या इव रोगिणम् ।। ८८ ॥ संजातहृदयत्रोटः क्षुत्पिपासाकदर्थितः । चर्मकीकसमात्रागः स गौरवमचिन्तयत् ।।८९ ॥ अहो ! निष्करुणो ग्रामः पापिष्ठो निष्ठुराशयः । चांडालनिर्विशेषोऽयमशेषोऽप्यतिवञ्चकः ॥९० ॥ दूरे स्वयं करुणया दीनस्य मम पालनम् । मत्स्वामिदत्तमप्येभिर्जग्धं चार्यादिवेतनम् ॥९१ ॥ क्रुद्धोऽकामनिर्जरावान् स गौम॒त्वोदपद्यत । व्यन्तरः शूलपाण्याख्यो ग्रामेऽत्रैव पुरोवने ।। ९२ ।। सोऽथाज्ञासीद्विभंगेन पूर्वजन्मकथां निजाम् । ददर्श गोवपुस्तच्च ग्रामायास्मै चुकोप च ।। ९३ ।। व्यकार्षीद्वयंतरो मारिं स मारेरिव दैवतम् । मार्यमाणैरमी ग्राम्यैरभूवन्नस्थिसंचयाः ।। ९४ ॥ अपृच्छंश्चतुरा ग्राम्या मुहुर्योतिर्विदादिकान् । चक्रुः शान्त्यै तदाज्ञां च वैद्याज्ञामिव रोगिणः ॥ ९५ ॥ १ संभूष्य । २ पुरावने । पुरातने । ३ °धानामि । टि.-*प्रियं कृत्वा ।
शूलपाणियक्षप्रसंगः ।
I४८॥