________________
त्रिषष्टिशलाकापुरुषचरिते
॥४७॥
दशमं पर्व तृतीयः | सर्गः श्रीमहावीरजिन| चरितम् ।
निर्मत्सराः सत्यगिरस्तापसा इति चिन्तयन् । स नाथमूचे किं तात ! त्रातोऽयं नोटजस्त्वया ? ॥७० ।। त्वत्पित्रा रक्षिताः सर्वे यावज्जीवं किलाश्रमाः । दुष्टशासनरुपं हि तवापि व्रतमर्हति ।। ७१ ॥ आत्मानमिव रक्षन्ति स्वनीडं नीडजा अपि । विवेकिना त्वया हन्त किमाश्रम उपेक्षितः ? ।। ७२ ।। स्वविवेकोचितां शिक्षा स दत्त्वा जीर्णतापसः । स्वमाश्रमं ययौ भूयः स्मरन् सिद्धार्थसौहृदम् ।। ७३ ।। दध्यौ चैवं विभुरेषामप्रीतिर्मन्निबन्धना । तदत्र स्थातुमुचितं न मे सर्वहितैषिणः ॥७४ ।। एवं च चिन्तयन् स्वामी वैराग्यमधिकं दधत् । अभिग्रहानिमान् पञ्च जग्राह करुणानिधिः ।।७५ ।। नैवाऽप्रीतिमतो गेहे वसनीयं कदाचन । स्थातव्यं च शरीरेण कायोत्सर्गजुषा सदा ।। ७६ ।। स्थेयं मौनेन च प्रायो भोक्तव्यं पाणिभाजने । गृहस्थस्य च विनयो न कार्य इति पञ्च ते ॥७७ ॥ अभिग्रहान् गृहीत्वामूनर्धमासादनन्तरम् । ग्रामं नाम्नाऽस्थिकग्रामं ययौ प्रावृष्यपि प्रभुः ।।७८ ॥ तत्र चैकस्य यक्षस्य शूलपाणेनिकेतने अधिवस्तुं जगन्नाथो ग्रामीणानन्वजिज्ञपत् ।। ७९ ।। ऊचुर्गाम्या न यक्षोऽयं वस्तुं दत्तेऽत्र कस्यचित् । यक्षस्यामुष्य हि कथा महती सा निशम्यताम् ।। ८० ॥ ग्रामोऽयमभवत्पूर्व वर्धमानोऽभिधानतः । नद्यस्ति वेगवत्यत्र पंकिलोभयकुलभूः ॥ ८१ ॥ तत्र भाण्डभृतैरागादनसां पञ्चभिः शतैः । धनदेवो वणिक् तस्य चाभूदेको महावृषः ।। ८२ ।। तं महोक्षं धुरि कृत्वा सर्वाणि शकटानि सः । नद्या उत्तारयामास विषमाया अपि क्षणात् ।। ८३ ॥
| दूइज्जततापसाश्रमे गमनं ततः विहारश्चः ।
॥४७॥