________________
त्रिषष्टिशलाकापुरुषचरिते
॥४६॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
आजानुलम्बितभुजो जटावानिव पादपः । नियंत्रितमनास्तत्र तस्थौ प्रतिमया प्रभुः ।। ५८ ॥ भीष्मग्रीष्मर्तुमाहात्म्यान्निःशेषिततॄणे वने । अनुद्यन्नूतनतॄणे नवत्वात्प्रावृषोऽपि च ।। ५९ ।। अधावन् खादितुं गावस्तापसानां तृणोटजान् । निर्दयास्तापसास्ते गास्ता यष्टिभिरताडयन् ।। ६०॥
॥युग्मम्।। तैस्ताड्यमाना गावस्तास्तृणौकः स्वाम्यधिष्ठितम् । चखादुः स्तंभनिभृते प्रभौ तासां कुतो हि भीः ॥६१ ।। तापसा अपि तत्प्रेक्ष्याऽक्रुध्यन्नेवं प्रभुं प्रति । रक्षामो वयमुटजान् स्वं न रक्षत्यसौ पुनः ॥ २ ॥ अहो कुलपतेः कोऽयमतिथिर्यस्य पश्यतः । चखादुर्गाव उटजमहो स्वार्थकनिष्ठता ।। ६३ ।। किं कुर्महे स्व आत्मेव प्रियः कुलपतेरयम् । तद्भयादेव परुषं न वक्तुमिह शक्यते ।। ६४ ॥ तापसास्तेऽन्यदा नाथे प्ररुढप्रौढमत्सराः । गत्वा कुलपतेः पार्वे सोपालंभमदोऽवदन् ।। ६५ ।। आश्रमे श्रमणः कोऽयमानीतो निर्ममस्त्वया । उटजस्यापि नाशोऽभूद्यदस्मिन्निह तस्थुषि ।।६६ ॥ अकृतज्ञ उदासीनो निर्दाक्षिण्योऽलसश्च सः । गोभ्योऽपि रक्षति न यः खाद्यमानं स्वमाश्रमम् ।। ६७ ॥ मुनिमन्योऽथवा नैष गा रक्षति समत्वभृत् । गुरुदेवार्चकास्तत्कि वयं न मुनयो मुने ! ॥६८ ॥ ततः कुलपतिरगादुपनाथं ददर्श च । कृतपक्षं खगमिव छदिवर्जितमाश्रमम् ।।६९ ॥ १°स्तेऽपि ता य ।
दूइज्जंततापसाश्रमे गमनं ततः विहारश्चः ।
॥४६॥