________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥४५॥
तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
दीक्षाक्षणे च यच्चक्रे विभोर्देवैर्विलेपनम् । भंगास्तत्सौरभाकृष्टास्तमागत्योपदुद्रुवुः ॥ ४६ ॥ गन्धयुक्तिमयाचन्त ग्रामीणतरुणाः प्रभुम् । अंगसंगं तरुण्यस्तु स्मरज्वरभरौषधम् ।। ४७ ।। दीक्षादिनात् प्रभृत्येवं साग्रं मासचतुष्टयम् । उपसर्गाजगन्नाथः सेहे गिरिरिव स्थिरः ।। ४८ ।। अन्यदा विहरन् स्वामी मोराके सन्निवेशने । ययौ दूइज्जन्तकाख्यतापसवातसंकुले ।। ४९ ।। पितृमित्रं कुलपतिस्तत्र नाथमुपास्थितः । पूर्वाभ्यासात् स्वामिनाऽपि तस्मिन् बाहुः प्रसारितः ।। ५० ॥ प्रार्थितः कुलपतिना तत्रैकामवसन्निशाम् । प्रतिमयैकरात्रिक्या श्रीमान् सिद्धार्थनन्दनः ।। ५१ ।। विजिहीर्षु भगवन्तमूचे कुलपतिः प्रगे । वर्षाकालस्त्वया कार्यों विविक्तवसताविह ।। ५२ ॥ नीरागोऽपि वचस्तस्य "प्रतिश्रुत्योपरोधतः । निरञ्जनः शंख इव प्रययौ प्रभुरन्यतः ।। ५३ ।। वायुरिवाप्रतिबद्धो निर्लेपः पद्मपत्रवत् । सर्वत्र विहरन् ग्रीष्मकालं स्वाम्यत्यवाहयत् ।। ५४ ।। सिद्धार्थसुहृदस्तस्य स्मरन् कुलपतेर्वचः । स्वामी प्रावृषमत्येतुं मोराकं पुनरभ्यगात् ।। ५५ ।। वर्षत्युद्गर्जितं मेघे खस्थधारागृहोपमे । स्वस्वस्थानाय गच्छत्सु पथिकेष्वपि हंसवत् ।। ५६ ।। प्रभोर्धातृव्यतास्नेहसम्बन्धमधुराशयः । गृहमेकं कुलपतिस्तृणाच्छादितमार्पयत् ।। ५७ ।। ।। युग्मम्।। १°ख्ये । २ "पास्थित । पस्थितः । ३ ऽखंडधा। टि.-+ रागरहितः । अंगीकृत्य ।।
%ARAHASRAHABHARASHAR
प्रभोः वर्णनम् ।
॥४५॥
ASHRS0465