SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥४४॥ दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् । प्रभोः इत्युक्त्वागाद्धरिस्तस्थौ सिद्धार्थः प्रतिपद्य तत् । स्वामी षष्ठपारणाय कोल्लाकेऽगान्निवेशने ॥ ३४ ॥ तत्र द्विजातेर्बहुलाभिधस्य सदने प्रभुः । चक्रे सिताज्यमिश्रेण परमान्नेन पारणम् ।। ३५ ॥ वसुधाराप्रभृतीनि द्विजातेस्तस्य सद्मनि । पञ्च दिव्यान्याविरासन् कृतानि दिविषद्गणैः ॥३६ ।। ततो जगद्गुरुः शीतलेश्यः शीतमयूखवत् । तपस्तेजोदूरालोकोऽधिपतिस्तेजसामिव ।।३७ ।। शौण्डीर्यवान् गज इव सुमेरुरिव निश्चलः । सर्वस्पर्शसहिष्णुश्च यथैव हि वसुन्धरा ।। ३८ ॥ अम्भोधिरिव गंभीरो मृगेन्द्र इव निर्भयः । मिथ्यादृशां दुरालोकः सुहूतो हव्यवाडिव ।। ३९ ।। खड्गिशृंगमिवैकाकी जातस्थामा महोक्षवत् । गुप्तेन्द्रियः कूर्म इवाहिरिवैकान्तदत्तदृक् ॥ ४० ॥ निरञ्जनः शंख इव जातरुपः सुवर्णवत् । विप्रमुक्तः खग इव जीव इवास्खलद्गतिः ॥४१ ।। भारंड इवाप्रमत्तो व्योमेव च निराश्रयः । अंभोजिनीदलमिवोपलेपपरिवर्जितः ।। ४२ ॥ शत्रौ मित्रे तृणे *स्त्रैणे स्वर्णेऽश्मनि मणौ मृदि । इहाऽमुत्र सुखे दुःखे भवे मोक्षे समाशयः ॥ ४३ ॥ निष्कारणैककारुण्यपरायणमनस्तया । मज्जद्भवोदधौ मुग्धमुद्दिधीर्षुरिदं जगत् ।। ४४ ॥ प्रभुः प्रभञ्जन इवाऽप्रतिबद्धोऽब्धिमेखलाम् । नानाग्रामपुरारण्यां विजहार वसुन्धराम् ॥ ४५ ॥ ॥नवभिः कुलकम् ।। १ तादिमि° । २ भारुण्ड । टि.-'स्त्रीसमूहे । + वायुः । वर्णनम् । SARASHARASHARE ||४४॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy