________________
त्रिषष्टिशलाकापुरुषचरिते
॥४३॥
दशमं पर्व तृतीयः सर्गः श्रीमहावीरजिनचरितम् ।
भ्रान्त्वा तेऽपि बलीवर्दाः पुनरेयुरुपप्रभु । निषध तस्थू रोमन्थायमानाः स्वस्थचेतसः ।।२२ ।। भ्रान्त्वा सोऽप्यागतो गोपो वृषान् दृष्ट्वेत्यचिन्तयत् । प्रभाते नेतुकामेन नूनं गावोऽमुना हृताः ।। २३ ॥ एवं विचिन्त्य रभसा समुत्पाट्य च दामनीम् । प्रभुं हन्तुमधाविष्ट सकोपो गोपपांसनः ॥२४ ।। तदा चाचिन्तयच्छक्रः किं स्वामी प्रथमेऽहनि । विदधातीत्यथाऽपश्यत्तं गोपं हन्तुमुद्यतम् ॥ २५ ॥ स्तम्भयित्वाथ तं शक्रस्तत्रैत्यैवमतर्जयत् । किं नामुं वेत्सि रे पाप ! सिद्धार्थनृपनन्दनम् ॥२६ ।। ततः प्रदक्षिणीकृत्य त्रिमूर्ना प्रणिपत्य च । इति विज्ञपयाञ्चक्रे प्रभुः प्राचीनबर्हिषा ।। २७ ।। भविष्यति द्वादशाब्दान्युपसर्गपरंपरा । तां निषेधितुमिच्छामि भूत्वाऽहं पारिपार्श्वकः ।। २८ ।। समाधि पारयित्वेन्द्रं भगवानूचिवानिति । नापेक्षांचक्रिरेऽर्हन्तः परसाहायकं क्वचित् ।। २९ ॥ नैतद् भूतं भवति वा भविष्यति च जातुचित् । यदर्हन्तोऽन्यसाहाय्यादर्जयन्ति हि केवलम् ।।३०॥ केवलं केवलज्ञानं प्राप्नुवन्ति स्ववीर्यतः । स्ववीर्येणैव गच्छन्ति जिनेन्द्राः परमं पदम् ॥३१ ।।
बालेन तपसोत्पन्नं व्यन्तरेषु तदामरम् । नाथस्य मातृष्वनीयं सिद्धार्थं मघवाऽऽदिशत् ।। ३२ ॥ ॐ विदधात्युपसर्ग यः स्वामिनो मारणान्तिकम् । प्रतिषेध्यः स भवता स्वामिनः पार्श्ववर्तिना ।। ३३ ।।
१ सुस्थचे । २ हायिकं । ३°णात्मकम् । * इन्द्रेण । + कायोत्सर्गम् ।
गोपेन कृतः प्रथम उपसर्गः ।
॥४३॥