________________
त्रिषष्टिशलाकापुरुषचरिते
॥३८॥
दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिन
चरितम् ।
तादृशीमेव शिबिकां तदा शक्रोऽप्यकारयत् । युग्मजाते इवाऽभातां यथोभे तुल्यया श्रिया ।। १७७ ॥ प्रथमायां शिबिकायां द्वितीयशिबिका तदा । देवशक्त्यान्तर्बभूव नद्यामिव नदी क्षणात् ।। १७८ ॥ ततः प्रदक्षिणीकृत्य शिबिकामधिरुह्य च । सिंहासनमलंचक्रे सांहिपीठं जगत्प्रभुः ।। १७९ ॥ मांगल्यश्वेतवसनः सचन्द्रिक इवोडुपः । विभुर्बभौ भूषणैश्च कल्पद्रुम इवापरः ॥१८० ॥ प्रभौ प्राङ्मुखमासीने शुचीभूताः सुवाससः । विचित्ररत्नालंकाराः सर्वा दक्षिणपार्श्वगाः ।। १८१ ।। प्रालंबैः शाखिन इव शोभिता हस्तशाटकैः । निषेदुरेकमनसस्तदा कुलमहत्तराः ॥१८२ ।। ।। युग्मम्॥ बभार मुक्तालंकारा विमलांशुकभृद्विभोः । मूर्धन्येकाङ्गना छत्रं ज्योत्स्नेव रजनीकरम् ।। १८३ ॥ धारयामासतुढे तु पार्श्वयोश्चारुचामरौ । सर्वांगहेमाभरणे मेरुतट्यामिवोडुपौ ।। १८४ ।। तस्थौ वायव्यदिश्येका रुप्यशृंगारपाणिका । दिशि दक्षिणपूर्वस्यां तालवृन्तधराऽपरा ।। १८५ ।। पृष्ठे वैडूर्यदंडानि पांडुच्छत्राण्यधारयन् । अष्टाग्रसहस्रस्वर्णशलाकान्यमरेश्वराः ॥ १८६ ।। पार्श्वयोः शिबिकायास्तु सौधर्मेशानवासवौ । तोरणस्तंभसदृशौ तस्थतु तचामरौ ॥ १८७ ।। सहस्रवाह्यामुद्दधुः शिबिकामादितो नराः । ततः शक्रेशानबलिचमराद्या दिवौकसः ।। १८८ ।। दक्षिणेनोपरिष्टात्तु शिबिकां शक्र आददे । उपरिष्टादुत्तरेण त्वीशानाधिपतिः स्वयम् ॥ १८९ ।। १ ते तुल्य तु । २ ज्यात्स्नाव । ३ भरण । ४ "तट्याविवा"
प्रव्रज्याग्रहणम् ।
॥३८॥