________________
दशमं पर्व द्वितीयः
त्रिषष्टिशलाकापुरुषचरिते
॥३७॥
सर्गः
श्रीमहावीरजिनचरितम् ।
सर्वोऽप्यहमिवाद्यापि स्वजनः शोकपूरितः । क्षते क्षारं निक्षिपसि स्ववियोगेन किं मयि ॥ १६५ ।। एवं च ज्यायसो भ्रातुः सशोकस्योपरोधतः । जगत्पतिर्भावयतिरलंकारैरलंकृतः ।। १६६ ॥ कायोत्सर्गधरो नित्यं ब्रह्मचर्यपरायणः । स्नानांगरागरहितो विशुद्धध्यानतत्परः ।। १६७ ।। एषणीयप्रासुकान्नप्राणवृत्तिर्महामनाः । वर्षमेकं कथमपि गृहवासेऽत्यवाहयत् ।। १६८ ॥ तीर्थं प्रवर्तयेत्युक्तस्ततो लोकान्तिकामरैः । यथाकामितमर्थिभ्यो दानं स्वाम्याब्दिकं ददौ ।। १६९ ।। देवैः शक्रादिभिर्नन्दिवर्धनाद्यैश्च पार्थिवैः । दीक्षाभिषेको विदधे श्रीवीरस्य यथाविधि ।। १७० ॥ भ्रातुर्विरहदुःखेन राहुणेन्दुरिवाकुलः । स्वानादिदेशेति तदा कथंचिन्नन्दिवर्धनः ।। १७१ ।। सुवर्णवेदिकास्तंभां धुसदास्थानिकामिव । सेतारकामिव दिवं मुक्तास्वस्तिकलाञ्छिताम् ।। १७२ ।। स्वर्णसिंहासनगां सार्का मेरुतटीमिव । प्रक्वणत्किंकिणीमाला पालकस्यानुजामिव ।। १७३ ॥ समुच्छलद्ध्वजपटां गंगामिव महोर्मिकाम् । पञ्चाशद्धनुरायामां षट्त्रिंशद्वनुरुन्नताम् ।। १७४ ॥ पञ्चानविंशतिधनुर्विस्तृतां शिबिकोत्तमाम् । चन्द्रप्रभाख्यां कुर्वन्तु श्रीवीरस्यासनोचिताम् ।। १७५ ॥
॥चतुर्भिः कलापकम् ।। त्वरितं कारयामासुः शिबिकां तां तथैव ते । राज्ञां हि वचसाऽर्थः स्यान्मनसा घुसदामिव ।। १७६ ।। १"कामीनम' । १ सतारि'।
दीक्षार्थ नन्दिवर्धनानुज्ञा ।
॥३७॥