________________
त्रिषष्टिशलाकापुरुषचरिते
॥३६॥
दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् ।
त्रिशलासिद्धार्थराजौ तत्पश्यन्तौ वधूवरम् । धन्यंमन्यौ मुमुदाथे पीतामृतरसाविव ।। १५२ ॥ समं यशोदया देव्या स्वामी वैषयिकं सुखम् । अनासक्तोऽनुबभूव पित्रोर्नेत्रनिशाकरः ।। १५३ ॥ कालेन गच्छता भर्तुर्यशोदायामजायत । नामतो रुपतश्चापि दुहिता प्रियदर्शना ।। १५४ ।। महाकुलो राजपुत्रो महर्द्धिर्नवयौवनः । जमालिः परिणिनायोद्यौवनां प्रियदर्शनाम् ।। १५५ ।। अष्टाविंशे जन्मतोऽब्दे स्वामिनः पितरावथ । विहितानशनौ मृत्वा जग्मतुः कल्पमच्युतम् ।। १५६ ।। सिद्धार्थराजत्रिशलाजीवावच्युततश्च्युतौ । क्षेत्रेऽपरविदेहाख्ये प्राप्स्यतः पदमव्ययम् ।। १५७ ।। पित्रोः कृतेऽङ्गसंस्कारे तत्रातीते च वासरे । सान्तःपुरं शोकमग्नं स्वाम्यूचे नन्दिवर्धनम् ।। १५८ ॥ सदा सन्निहितो मृत्युर्जीवितं नश्वरं सदा । उपस्थिते वास्तवेऽस्मिन्न हि शोकः प्रतिक्रिया ॥१५९ ।। धैर्यालंबनपूर्वं च धर्मानुष्ठानमेव हि । युज्यते न तु शोकादि भ्रातः ! कापुरुषोचितम् ।। १६० ॥ स्वामिना बोधितश्चैवं स्वस्थोऽभून्नन्दिवर्धनः । पित्र्यं राज्यमलंकर्तुं सोऽभ्यर्थयत च प्रभुम् ॥१६१ ।। पित्र्यं राज्यं यदा वीरो भवोद्विग्नो न शिश्रिये । राजा चक्रे तदाऽमात्यैः साग्रहैनन्दिवर्धनः ॥ १६२ ॥ चिरेप्सितपरिव्रज्याग्रहणायाथ सादरः । आपप्रच्छे महावीरो भ्रातरं नन्दिवर्धनम् ।। १६३ ॥ शोकस्खलितवाग्नन्दिवर्धनोऽप्यभ्यधादिति । अद्यापि पितरौ भ्रातर्गच्छतो विस्मृतिं न हि ।। १६४ ।। १°मयं । २ वासरे।
मातापित्रोः देवलोकगमनम् ।
॥३६॥