________________
त्रिषष्टिशलाकापुरुषचरिते
॥३५॥
दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् ।
अभ्युत्तस्थौ जगन्नाथो गौरवेण स्वमातरम् । रत्नसिंहासने चोच्चैरासयित्वेत्युवाच च ॥१३९ ।। दिष्ट्या मातस्त्वमायासीः किमागमनकारणम् ? । आहूतोऽप्यहमायामि सद्यो युष्माकमाज्ञया ॥ १४० ।। उवाच त्रिशलादेवी सदने नस्त्वमागमः । अस्मत्पुण्यैर्न खल्वल्पैरनल्पोदयकारणम् ।। १४१ ॥ भवन्तं वीक्षमाणानां न तृप्तिर्जगतामपि । त्वदर्शनमहाद्रव्यतद्धनानां किमङ्ग नः ॥ १४२ ॥ जानीमश्च सदैवेदमस्माकमनुकम्पया । भववासविरक्तोऽपि गृहवासेऽत्र तिष्ठसि ।। १४३ ।। अकार्षीर्दुष्करमिदं स्वमनोवृत्तिबाधया । एतावता न तृप्यामो वयं ते विनयालय ! ।। १४४ ।। वधूयुक्तं यथाद्य त्वां पश्यामस्त्वं तथा कुरु । राजपुत्री यशोदाख्यां समायातां समुद्वह ।। १४५ ॥ उत्कंठितस्ते पितापि त्वद्विवाहोत्सवेक्षणे । कुरुष्व दुष्करमदोऽप्यावयोरुपरोधतः ।। १४६ ।। भगवानप्यथो दध्यौ किमापतितमद्य मे । साग्रहेयमितो माता भवभ्रमणभीरितः ।। १४७ ।। गर्भेऽपि संवृताङ्गोऽस्थां मातृदुःखाभिशंकया । स्थास्यामि गृहवासेऽपि तन्मनोवृत्तिबाधया ।। १४८ ।। कर्म भोगफलं चास्ति मान्यौ च पितरौ मम । एवं विचिन्त्य भगवांस्तन्मेने मातृशासनम् ।। १४९ ॥ गत्वा च त्रिशलादेवी स्वयं सिद्धार्थभूभुजे । विवाहानुमति सूनोराचचक्षे प्रमोदभाक् ।। १५० ॥ पुण्येऽहनि महीनाथो जन्मोत्सवसमोत्सवम् । विवाहं कारयामास महावीरयशोदयोः ।। १५१ ॥ १ स्वम°। १°वृत्त्यबा
प्रभोः पाणिग्रहणम् ।
॥३५॥