SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरि ॥३४ ॥ ते मंत्रिणोऽथ सिद्धार्थं नत्वोचुर्नः क्षमापतिः । प्रदातुं वर्धमानाय यशोदां प्राहिणोत्सुताम् ।। १२६ ॥ अग्रेऽपि भवतो भृत्योऽस्मत्स्वामी स विशेषतः । सम्बन्धेनामुना भूयात् प्रसीदानुगृहाण नः ।। १२७ ।। ऊचे सिद्धार्थराजोऽपि त्रिशलाया ममापि च । मनोरथो भृशमस्ति कुमारोद्वाहलक्षणः ।। १२८ ।। परं कुमारः संसारविरक्तो जन्मतोऽपि हि । न शक्यते वक्तुमपि विवाहादिप्रयोजने ।। १२९ ॥ तथापि ह्युपरोधाद्वस्तत्तद्वचनभंगिभिः । ब्रूमस्तन्मित्रमुखेन विवाहायाद्य नन्दनम् ॥ १३० ॥ इत्युक्त्वा त्रिशलादेवीमापृच्छ्य च महीपतिः । प्रैषीदुपवर्धमानं तद्वयस्यान् महामतीन् ॥ १३१ ॥ तेऽपि गत्वा सविनयं नमस्कृत्याचचक्षिरे । वर्धमानकुमाराय सिद्धार्थनृपशासनम् ।। १३२ ।। भगवानप्युवाचैवं यूयं मदनुगा अपि । मम भावं ने जानीथ गृहवासपराङ्मुखम् ।। १३३ ।। तेऽप्यूचुस्त्वां भवोद्विग्नं मन्महे सर्वदापि हि । आज्ञा पित्रोरलंघ्या ते विद्मः परमदोऽपि च ।। १३४ ॥ किं च नः प्रणययाञ्चां कदाचिन्नावमन्यसे । कथमेकपदे सर्वानस्मानद्यावमन्यसे ।। १३५ ।। अथो बभाषे भगवान्मूढाः को वोऽयमादरः । परिग्रहो हि दारादेर्भवभ्रमणकारणम् ।। १३६ ।। मा स्म भूज्जीवतोर्दुःखं मत्पित्रोर्मद्वियोगजम् । इति हेतोर्नाधुनैव प्रव्रजाम्युत्सुकोऽपि हि ।। १३७ ॥ एवं प्रभौ भाषमाणे विवाहाय नृपाज्ञया । स्वामिनी त्रिशलादेवी स्वयं तत्र समाययौ ।। १३८ ।। १ इति । २ तु । दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिन चरितम् । प्रभोः पाणि ग्रहणम् । ॥ ३४ ॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy