________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥३३॥
द्वितीयः सर्गः श्रीमहावीर
जिन
चरितम् ।
ततः करालं वेतालरुपमाधाय दुष्टधीः । भूधरानप्यधरयन् प्रारब्धो वर्धितुं सुरः ।।११३ ॥ पातालकल्पे तस्यास्ये जिह्वया तक्षकायितम् । पिंगैस्तुगे शिरःशैले कैशैर्दावानलायितम् ।। ११४ ।। तस्यातिदारुणे दंष्ट्रे अभूतां क्रकचाकृती । जाज्वल्यमाने अङ्गारशकट्याविव लोचने ।। ११५ ।। घोणारंध्रे महाघोरे महीधरगुहे इव । भूकुटीभंगुरे भीमे महोरग्याविव ध्रुवौ ।। ११६ ।। स व्यरंसीद्वर्धनान्न यावत्तावन्महौजसा । आहत्य मुष्टिना पृष्ठे स्वामिना वामनीकृतः ।। ११७ ॥ एवं च भगवद्धैर्य साक्षात्कृत्येन्द्रवर्णितम् । प्रभुं नत्वाऽऽत्मरुपेण निजं धाम जगाम सः ॥ ११८ ।। पित्रा साग्राष्टवर्षस्यारब्धेऽथाध्यापने प्रभोः । सिंहासनं क्षणेनापि कम्पते स्म बिडौजसः ।। ११९ ॥ अवधिज्ञानतो ज्ञात्वा पित्रोरार्जवमद्भुतम् । आः सर्वज्ञस्य शिष्यत्वमितीन्द्रस्तमुपास्थितः ।। १२० ।। उपाध्यायासने तस्मिन् वासवेनोपवेशितः । प्रणम्य प्रार्थितः स्वामी शब्दपारायणं जगौ ।। १२१ ।। इदं भगवतेन्द्राय प्रोक्तं शब्दानुशासनम् । उपाध्यायेन तच्छुत्वा लोकेष्वैन्द्रमीतिरितम् ॥ १२२ ।। सप्तहस्तोच्छ्रितवपुः क्रमात्प्राप च यौवनम् । वनद्विप इव स्वामी लीलागमनभूषणः ।। १२३ ।। रुपं जगत्त्रयोत्कृष्टं प्रभुत्वं त्रिजगत्यपि । यौवनं च नवं भर्तुर्विकारोऽभूत्तथापि न ।। १२४ ।। राजा समरवीरोऽथ यशोदां कन्यकां निजाम् । प्रदातुं वर्धमानाय प्राहिणोन्मत्रिभिः सह ॥१२५ ।। १°स्थित।
आमलकीक्रीडा।
॥३३॥