________________
त्रिषष्टिशलाकापुरुषचरिते
| दशमं पर्व द्वितीयः सर्गः श्रीमहावीरजिनचरितम् ।
॥२९॥
तदाशङ्कानिरासाय लीलया परमेश्वरः । मेरुशैलं वामपादाऽङ्गुष्ठाग्रेण न्यपीडयत् ।। ६१ ॥ शिरांसि मेरोरनमन्नमस्कर्तुमिव प्रभुम् । तदन्तिकमिवायातुमचलंश्च कुलाचलाः ।। ६२ ।।
अतुच्छमुच्छलन्ति स्म स्नात्रं कर्तुमिवार्णवाः । विवेपे सत्वरं तत्र नर्तनाभिमुखेव भूः ।। ६३ ॥ किमेतदिति संचिन्त्यावधिज्ञानप्रयोगतः । लीलायितं भगवतो विदाञ्चक्रे बिडौजसा ॥६४ ॥ स्वामिन्ननन्यसामान्यं सामान्यो मादृशो जनः । विदांकरोतु माहात्म्यं कथंकारं तवेदृशम् ।।६५ ॥ तन्मिथ्यादुष्कृतं भूयाच्चिन्तितं यन्मयान्यथा । इतीन्द्रेण ब्रुवाणेन प्रणेमे परमेश्वरः ।। ६६ ।। सानन्दं वादितातोद्यं चक्रे भर्तुः सुरेश्वरैः । तीर्थगन्धोदकैः पुण्यैरभिषेकमहोत्सवः ।। ६७ ॥ अभिषेकजलं तत्तु सुरासुरनरोरगाः । ववन्दिरे मुहुः सर्वांगीणं च परिचिक्षिपुः ।। ६८ ।। प्रभुस्नात्रजलालीढा वन्दनीया मृदप्यभूत् । गुरुणां किल संसर्गाद्गौरवं स्याल्लघोरपि ।। ६९ ।। निवेश्येशाननाथांके सौधर्मेन्द्रोऽप्यथ प्रभुम् । स्नपयित्वार्चयित्वाथ कृत्वाऽऽरात्रिकमस्तवीत् ।। ७० ।। नमोऽर्हते भगवते स्वयंबुद्धाय वेधसे । तीर्थकरायादिकृते पुरुषेषूत्तमाय ते ॥७१ ।। नमो लोकप्रदीपाय लोकप्रद्योतकारिणे । लोकोत्तमाय लोकाधीशाय लोकहिताय ते ॥ ७२ ।। नमस्ते पुरुषवरपुंडरीकाय शंभवे । पुरुषसिंहाय पुरुषैकगन्धद्विपाय ते ॥७३ ।। चक्षुर्दायाभयदाय बोधिदायाध्वदायिने । धर्मदाय धर्मदेष्ट्रे नमः शरणदायिने ।।७४ ।।
प्रभोः जन्माभिषेकः ।
| I२९॥