________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२८॥
अथ दिक्षु प्रसन्नासु स्वोच्चस्थेषु ग्रहेषु च । प्रदक्षिणेऽनुकूले च भूमिसर्पिणि मारुते ।। ४९ ।। प्रमोदपूर्णे जगति शकुनेषु जयिष्वलम् । अर्धाष्टमदिनाग्रेषु मासेषु नवसूच्चकैः ।। ५० ।। शुक्लचैत्रत्रयोदश्यां चन्द्रे हस्तोत्तरागते । सिंहांकं काञ्चनरुचिं स्वामिनी सुषुवे सुतम् ।। ५१ ।। ॥ त्रिभिर्विशेषकम् ॥ षट्पञ्चाशद्दिक्कुमार्योऽभ्येत्य भोगंकरादयः । स्वामिनः स्वामिमातुश्च सूतिकर्माणि चक्रिरे ।। ५२ ।। शक्रोऽप्यासनकंपेन तत्कालं सपरिच्छदः । विज्ञाय स्वामिनो जन्म सूतिकागृहमाययौ ।। ५३ ॥ अर्हन्तमर्हदम्बां च दूरतोऽपि प्रणम्य सः । उपसृत्यागतो देव्यांश्चावस्यापनिकां ददौ ।। ५४ । देव्याः पार्श्वे च भगवत्प्रतिरुपं निधाय सः । विचक्रे पञ्चधाऽऽत्मानमतृप्तो भक्तिकर्मणि ।। ५५ ।। एकः शक्रः स्वपाणिभ्यां भगवन्तमुपाददे । उपरि स्वामिनश्छत्रं द्वैतीयिकस्त्वधारयत् ।। ५६ ॥ स्वामिनः पार्श्वयोर्द्वी तु बिभ्रतुश्चारुचामरे । वज्रमुल्लालयन्नन्यो नृत्यंश्च पुरतो ययौ ।। ५७ ।। गत्वा मेरावतिपांडुकंबलामासदच्छिलाम् । तत्र सिंहासनं भेजे शक्रोऽङ्कारोपितप्रभुः ।। ५८ । तदानपयितुं नाथं त्रिषष्टिरपरेऽपि हि । एयुरिन्द्रा आभियोग्यैस्तीर्थाऽऽनायितवारयः ।। ५९॥ इयन्तं वारिसंभारं कथं स्वामी सहिष्यते । इत्याशशंके शक्रेण भक्तिकोमलचेतसा ॥ ६० ॥ १ ग्रतो । २ श्चापस्वा
| दशमं पर्व द्वितीयः
सर्गः श्रीमहावीर
जिनचरितम् ।
प्रभोः जन्म |
is
॥२८॥