________________
त्रिषष्टिशलाका
पुरुषचरिते ॥२७॥
सिद्धार्थस्यापि नृपतेर्दर्पादप्रणताः पुरा । प्रणेमुर्भूभुजोऽभ्येत्य स्वयं प्राभृतपाणयः ।। ३६ ।। मयि पस्पन्दमानेऽत्र मातुर्मा वेदना स्म भूत् । इत्यस्थान्निभृतः स्वामी गर्भवासेऽपि योगिवत् ॥ ३७ ॥ स्वामी संवृतसर्वांगव्यापारोऽस्थात्तथोदरे । नालक्ष्यत यथा मात्राप्यन्तस्तिष्ठति वा न वा ॥ ३८ ॥ तदा च त्रिशला दध्यौ किं गर्भो गलितो मम । केनाप्यपहृतः किं वा विनष्ट स्तंभितोऽथवा ? ।। ३९ ।। यद्येतदपि सञ्जातं तदलं जीवितेन मे । सह्यं किम्मृत्युजं दुःखं गर्भभ्रंशभवं न तु ।। ४० ।। इत्यार्त्तध्यानभाग्देवी रुदती लुलितालका । त्यक्तांगरागा हस्ताब्जविन्यस्तमुखपंकजा ।। ४१ ।। त्यक्ताभरणसंभारा निःश्वासविधुराधरा । सखीष्वपि हि तूष्णीका नाशेत बुभुजे न च ॥ ४२ ॥ तत्तु विज्ञाय सिद्धार्थमहीपतिरखिद्यत् । तत्पुत्रभांडे च नन्दिवर्धनोऽथ सुदर्शना ।। ४३ ।। पित्रोर्विज्ञाय तद् दुःखं ज्ञानत्रयधरः प्रभुः । अंगुलिं चालयामास गर्भज्ञापनहेतवे ।। ४४ ।। मद्गर्भोऽक्षत एवेति ज्ञात्वा स्वामिन्यमोदत । अमोदयच्च सिद्धार्थं गर्भस्पन्दनशंसनात् ॥ ४५ ॥ अचिन्तयच्च भगवान्मय्यदृष्टेऽपि कोऽप्यहो । मातापित्रोर्महान् स्नेहो जीवतोरनयोर्यदि ॥ ४६ ॥ प्रव्रजिष्याम्यहं स्नेहमोहादेतौ तदा ध्रुवम् । आर्तध्यानगतौ कर्माशुभं बह्वर्जयिष्यतः ॥४७॥ ॥ युग्मम् ॥ अथैवं सप्तमे मासि जग्राहाभिग्रहं प्रभुः । उपादास्ये परिव्रज्यां न पित्रोर्जीवतोरहम् ॥ ४८ ॥
दशमं पर्व द्वितीयः
सर्गः
श्रीमहावीर
जिनचरितम् ।
गर्भावस्थावर्णनम् -
प्रभोः
अभि
ग्रहश्च ।
॥२७॥