________________
त्रिषष्टिशलाकापुरुषचरिते
२६॥
दशमं पर्व द्वितीयः सर्गः श्रीमहावीर जिनचरितम् ।
मायया स्त्रीजन्मसहचारिण्याप्यकलंकिता । सा निसर्गऋजुर्देवी सुगृहीताभिधा भुवि ।।२३ ॥ सा चास्ति सांप्रतं गुर्वी कार्यः संचारणाद् द्रुतम् । तस्या देवानन्दायाश्च गर्भयोर्व्यत्ययो मया ।। २४ ।। विमृश्यैवं शतमखः समाहूय झगित्यपि । आदिदेश तथा कर्तुं सेनान्यं नैगमेषिणम् ।। २५ ।। विदधे नैगमेषी च तथैव स्वामिशासनम् । देवानन्दात्रिशलयोर्गर्भव्यत्ययलक्षणम् ।। २६ ॥ देवानन्दा ब्राह्मणी सा शयिता पूर्ववीक्षितान् । मुखान्निःसरतोऽद्राक्षीन्महास्वप्तांश्चतुर्दश ।। २७ ।। उत्थाय वक्ष आघ्नाना निःस्थामा ज्वरजर्जरा । केनापि जड़े मे गर्भ इति चुक्रोश सा चिरम् ।।२८ ॥ कृष्णाश्विनत्रयोदश्यां चन्द्रे हस्तोत्तरास्थिते । स देवस्त्रिशलागर्भे स्वामिनं निभृतं न्यधात् ।।२९ ॥ गजो वृषो हरिः साभिषेकश्रीः सक् शशी रविः । महाध्वजः पूर्णकुंभः पद्मसरः सरित्पतिः ।।३० ।। विमानं रत्नपुंजश्च निधूमोऽग्निरिति क्रमात् । ददर्श स्वामिनी स्वप्नान्मुखे प्रविशतस्तदा ।।३१ ॥ इन्द्रैः पत्या च तज्ज्ञैश्च तीर्थकृज्जन्मलक्षणे । उदीरिते स्वप्नफले त्रिशला देव्यमोदत ॥३२॥ दधार त्रिशलादेवी मुदिता गर्भमद्भुतम् । अप्रमत्तं विहरन्ती लीलासदनभूष्वपि ।।३३ ।। गर्भस्थेऽथ प्रभौ शक्राऽऽज्ञया जुंभकनाकिनः । भूयो भूयो निधानानि न्यधुः सिद्धार्थवेश्मनि ।। ३४ ।। सर्व ज्ञातकुलं भूरिधनधान्यादिऋद्विभिः । गर्भावतीर्णभगवत्प्रभावाद्ववृधेतराम् ।।३५ ॥ १-२ नेग° ३ व्य
त्रिशलाकुक्षौ गर्भसंहरणम् ।
I२६