________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
॥२५॥
| द्वितीयः सर्गः श्रीमहावीरजिनचरितम् ।
इक्ष्वाकुवंशप्रभृतिक्षत्रवंशेषु किं त्वमी । जायन्ते पुरुषसिंहा मुक्ताः शुक्त्यादिकेष्विव ।। १० । तदसंगतमापन्नं जन्म नीचकुले प्रभोः । प्राच्यं कर्मान्यथा कर्तुं यद्वार्हन्तोऽपि नेशते ।। ११ ॥ मरीचिजन्मनि कुलमदं नाथेन कुर्वता । अर्जितं नीचकैर्गोत्रकर्माद्यापि ह्युपस्थितम् ।। १२ । कर्मवशान्नीचकुलेषूत्पन्नानहतोऽन्यतः । क्षेप्तुं महाकुलेऽस्माकमधिकारोऽस्ति सर्वदा ।। १३ ।। कोऽधुनास्ति महावंश्यो राजा राज्ञी च भारते । यत्र संचार्यते स्वामी कुन्दाद् भंग इवांबुजे ॥१४ ।। ज्ञातमस्तीह भरते महीमंडलमंडनम् । क्षत्रियकुंडग्रामाख्यं पुरं मत्पुरसोदरम् ।। १५ ।। स्थानं विविधचैत्यानां धर्मस्यैकं निबन्धनम् । अन्यायैरपरिस्पृष्टं पवित्रं तच्च साधुभिः ।। १६ ।। मृगयामद्यपानादिव्यसनाऽस्पृष्टनागरम् । तदेव भरतक्षेत्रपावनं तीर्थवद् भुवः ।। १७ ।। तत्रैक्ष्वाको ज्ञातवंश्यः सिद्धार्थोऽस्ति महीपतिः । धर्मेणैव हि सिद्धार्थं सदाऽऽत्मानममस्त यः ।। १८ ।। जीवाजीवादितत्त्वज्ञो न्यायवर्तीमहाध्वगः । प्रजाः पथि स्थापयिता हितकामी पितेव सः ।। १९ ।। दीनानाथादिलोकानां समुद्धरणबान्धवः । शरण्यः शरणेच्छूनां स क्षत्रियशिरोमणिः ।। २० ॥ तस्यास्ति त्रिशला नाम सतीजनमतल्लिका । पुण्यभूरग्रमहिषी महनीयगुणाकृतिः ।।२१ ।। निसर्गतो निर्मलया तत्तद्गणतरंगया । तया पवित्र्यते धात्री मन्दाकिन्येव संप्रति ।। २२ ।। १ज्यं
त्रिशलाकुक्षौ गर्भसंहरणम् ।
IR५॥