________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥२४॥
द्वितीयः सर्गः
܀܀܀
इतश्च जंबूद्वीपेऽस्मिन् क्षेत्रेऽस्ति भरताभिधे । ब्राह्मणकुंडग्रामाख्यसंनिवेशो द्विजन्मनाम् ।। १ ।। तत्र चर्षभदत्तोऽभूत् 'कौडालसकुलो द्विजः । देवानन्दा च तद्भार्या जालन्धरकुलोद्भवा ।। २ ।। च्युत्वा च नन्दनो हस्तोत्तरर्क्षस्थे निशाकरे । आषाढस्य श्वेतषष्ठयां तस्याः कुक्षाववातरत् ।। ३ ।। देवानन्दा सुखसुप्ता महास्वप्नांश्चतुर्दश । ददर्श प्रातराख्यच्च पत्ये सोऽपि व्यचारयत् ॥ ४ ॥ चतुर्णां छन्दसां पारदृश्वा परमनैष्ठिकः । सूनुर्भवत्या भविता स्वप्नैरैभिर्न संशयः ।। ५ ।। देवानन्दागर्भगते प्रभो तस्य द्विजन्मनः । बभूव महती ऋद्धिः कल्पद्रुम इवागते ।। ६ ।। तस्या गर्भस्थिते नाथे द्वयशीतिदिवसात्यये । सौधर्मकल्पाधिपतेः सिंहासनमकंपत ॥ ७ ॥ ज्ञात्वा चावधिना देवानन्दागर्भगतं प्रभुम् । सिंहासनात् समुत्थाय शक्रो नत्वेत्यचिन्तयत् ॥ ८ ॥ त्रिजगद्गुरवोऽर्हन्तो नोत्पद्यन्ते कदाचन । तुच्छकुले रोरकुले भिक्षावृत्तिकुलेऽपि वा ॥ ९ ॥ १ ख्यः । २ कोडा' ।
दशमं पर्व द्वितीयः
सर्गः श्रीमहावीर
जिनचरितम् ।
देवानन्दा
कुक्षौ प्रभोः अवतरणम् ।
॥२४॥