SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुष ॥२३॥ एवं तैरमरैरुक्तः स गत्वा मज्जनौकसि । सिंहासने सांघ्रिपीठे निषसादामराग्रणीः ।। २७७ ॥ दिव्येन पयसा तत्राभिषिक्तः कुंभपाणिभिः । निन्ये च किंकरसुरैः सोऽलंकारनिकेतनम् ॥ २७८ ॥ देवदूष्ये न्यधादंगे वाससी तत्र सोऽमरः । अंगरागं भूषणानि किरीटप्रभृतीनि च ।। २७९ ।। व्यवसायसभां गत्वाऽवाचयत्पुस्तकं च सः । पुष्पादिपूजामादाय सिद्धालयमियाय च ॥ २८० ॥ अष्टोत्तरार्हत्प्रतिमाशतं स्नपयति स्म सः । आनर्च च ववन्दे च तुष्टाव च समाहितः ।। २८१ ।। गत्वा सुधर्मामास्थानीं संगीतकमकारयत् । विमाने तत्र भोगांश्च भुञ्जानोऽस्थाद्यथारुचि ।। २८२ ।। कल्याणकेष्वर्हतां स विदेहादिषु भूमिषु । अगाञ्जिनान् ववन्दे च सम्यक्त्वगुणभूषणः ।। २८३ ।। आयुर्विंशतिसागरोपममितं सोऽपूरि देवाग्रणीः, पर्यन्तेऽपि विशेषतः प्रतिकलं देदीप्यमानः श्रिया । मुह्यन्ति परे त्रिविष्टपसदः षण्मासशेषायुषः, क्वाप्युच्चैर्न तु तीर्थकृद्दिविषदोऽत्यासन्नपुण्योदयः ॥ २८४ ॥ १ वीरचरिते पू० ܀ ܀ ܀ ܀ ܀ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये दशमे पर्वणि श्रीमहावीरपूर्वभववर्णनो नाम प्रथमः सर्गः । दशमं पर्व प्रथमः सर्गः श्रीमहावीर जिनचरितम् । अन्तिमदेवभववर्णनम् । ॥२३॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy