________________
दशमं पर्व
| प्रथमः
त्रिषष्टिशलाकापुरुषचरिते IR२॥
सर्गः श्रीमहावीरजिनचरितम् ।
चतुर्विधाहारमपि यावज्जीवं त्यजाम्यहम् । उच्छ्वासे चरमे देहमपि हि व्युत्सृजाम्यहम् ।। २६५ ।। दुष्कर्मगर्हणां जन्तुक्षमणां भावनापि च । चतुःशरणं च नमस्कारं चानशनं तथा ।। २६६ ।। एवमाराधनां षोढा स कृत्वा नन्दनो मुनिः । धर्माचार्यानक्षमयत् साधून साध्वीश्च सर्वतः ।। २६७ ।। षष्टि दिनान्यनशनं पालयित्वा समाहितः । पञ्चविंशत्यब्दलक्षपूर्णायुः सोऽममो मृतः ॥ २६८ ॥ अथाधिप्राणतं पुष्पोत्तरनामनि विस्तृते । विमाने स उपपेदे शय्यायामुदपद्यत ।। २६९ ।। अन्तर्मुहूर्तान्निष्पन्नः स तु देवो महर्द्धिकः । अपनीय देवदूष्यमुपविष्टो व्यलोकयत् ।। २७० ॥ विमानं देवसंपातं देवर्द्धिं च विलोक्य ताम् । दध्यौ स विस्मितः प्राप्त केनेदं तपसा मया ।। २७१ ।। सोऽपश्यच्चावधेः पूर्वभवं तच्च व्रतावनम् । अहो प्रभावोऽर्हद्धर्मस्येति चेतस्यचिन्तयत् ।। २७२ ॥ अत्रान्तरे सुराः सर्वे तमुत्पन्नं सुरोत्तमम् । संभूय बद्धाञ्जलयो जगदुर्मुदिता इति ।। २७३ ।। स्वामिञ्जय जगन्नंद जगद्भद्र चिरं जय । त्वं नः स्वामी जितं त्रायस्वाजितं विजयस्व च ।। २७४ ।। इदं विमानं भवतो वयमाज्ञाकराः सुराः । अमून्युपवनान्युच्चैरमूर्मज्जनवापयः ।। २७५ ।। इदं च सिद्धायतनं सुधर्मेयं महासभा । मज्जनौकोऽलंकुरुष्वाभिषेकं कुर्महे यथा ।। २७६ ॥ टि.- • व्रतपालनम् ।
नन्दनराजभववर्णनम् ।
&|॥२२॥