________________
त्रिषष्टिशलाकापुरुषचरिते
॥२१॥
दशमं पर्व | प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
अन्यद्वपुरिदं तावदन्यद्धान्यधनादिकम् । बन्धवोऽन्येऽन्यश्च जीवो वृथा मुह्यति बालिशः ।। २५२ ।। वसारुधिरमांसास्थियकृद्विपमूत्रपूरिते । वपुष्यशुचिनिलये मूर्छा कुर्वीत कः सुधीः ।। २५३ ॥ अवक्रयात्तवेश्मेव मोक्तव्यमचिरादपि । लालितं पालितं वाऽपि विनश्वरमिदं वपुः ।। २५४ ।। धीरेण कातरेणापि मर्तव्यं खलु देहिना । तन्नियेत तथा धीमान्न म्रियेत यथा पुनः ॥२५५ ।। अर्हन्तो मम शरणं शरणं सिद्धसाधवः । उदीरितः केवलिभिर्धर्मः शरणमुच्चकैः ।। २५६ ।। जिनधर्मो मम माता गुरुस्तातोऽथ सोदराः । साधवः साधर्मिकाश्च बन्धवोऽन्यत्तु जालवत् ।। २५७ ।। ऋषभादीस्तीर्थकरान्नमस्याम्याखिलानपि । भरतैरावतविदेहार्हतोऽपि नमाम्यहम् ॥२५८ ॥ तीर्थकृद्भ्यो नमस्कारो देहभाजां भवच्छिदे । भवति क्रियमाणः स बोधिलाभाय चोच्चकैः ।। २५९ ।। सिद्धेभ्यश्च नमस्कारं भगवद्भ्यः करोम्यहम् । कर्मधोऽदाहि यैानाग्निना भवसहस्रजम् ।। २६० ॥ आचार्येभ्यः पञ्चविधाचारेभ्यश्च नमो नमः । यैर्धार्यते प्रवचनं भवच्छेदे सदोद्यतैः ।। २६१ ।। श्रुतं बिभ्रति ये सर्व शिष्येभ्यो व्याहरन्ति च । नमस्तेभ्यो महात्मभ्य उपाध्यायेभ्य उच्चकैः ।। २६२ ॥ शीलव्रतसनाथेभ्यः साधुभ्यश्च नमो नमः । भवलक्षसन्निबद्धं पापं निर्नाशयन्ति ये ॥२६३ ॥ सावधं योगमुपधि बाह्यमाभ्यन्तरं तथा । यावज्जीवं त्रिविधेन त्रिविधं व्युत्सृजाम्यहम् ॥२६४ ।।
नन्दनराजभववर्णनम् ।
॥२१॥