________________
त्रिषष्टिशलाकापुरुषचरिते
॥२०॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
पुत्रे कलत्रे मित्रे च बन्धौ धान्ये धने गृहे । अन्येष्वपि ममत्वं यत्तत्सर्वं व्युत्सृजाम्यहम् ।। २३८ ।। इन्दियैरभिभूतेन य आहारश्चतुर्विधः । मया रात्रावुपाभोजि निन्दामि तमपि त्रिधा ।। २३९ ।। क्रोधो मानो मया लोभो रागो द्वेषः कलिस्तथा । पैशून्यं परनिर्वादोऽभ्याख्यानमपरं च यत् ।। २४० ।। चारित्राचारविषयं दुष्टमाचरितं मया । तदहं त्रिविधेनापि व्युत्सृजामि समन्ततः ।। २४१ ॥ यस्तपःस्वतिचारोऽभूबाह्येष्वाभ्यन्तरेषु च । त्रिविधं त्रिविधेनापि निन्दामि तमहं खलु ॥ २४२ ।। धर्मानुष्ठानविषये यद्वीर्यं गोपितं मया । वीर्याचारातिचारं च निन्दामि तमपि त्रिधा ।। २४३ ।। हतो दुरूक्तश्च मया यो यस्याऽहारि किञ्चन । यस्याऽपाकारि किंचिद्वा मम क्षाम्यतु सोऽखिलः ।। २४४ ।। यश्च मित्रममित्रो वा स्वजनोऽरिजनोऽपि वा । सर्वः क्षाम्यतु मे सर्वं सर्वेष्वपि समोऽस्म्यहम् ।। २४५ ।। तिर्यक्त्वे सति तिर्यञ्चो नारकत्वे च नारकाः । अमरा अमरत्वे च मानुषत्वे च मानुषाः ।। २४६ ।। ये मया स्थापिता दुःखे सर्वे क्षाम्यन्तु ते मम । क्षाम्याम्यहमपि तेषां मैत्री सर्वेषु मे खलु ।। २४७ ॥ जीवितं यौवनं लक्ष्मीः रुपं प्रियसमागमः । चलं सर्वमिदं वात्यानर्तिताब्धितरंगवत् ।। २४८ ।। व्याधिजन्मजरामृत्युग्रस्तानां प्राणिनामिह । विना जिनोदितं धर्मं शरणं कोऽपि नापरः ।। २४९ ।। सर्वेऽपि जीवाः स्वजना जाताः परजनाश्च ते । विदधीत प्रतिबन्धं तेषु को हि मनागपि ॥२५० ।। एक उत्पद्यते जन्तुरेक एव विपद्यते । सुखान्यनुभवत्येको दुःखान्यपि स एव हि ॥२५१ ।।
नन्दनराजभववर्णनम् ।
&
॥२०॥