________________
त्रिषष्टिशलाकापुरुषचरिते
||१९॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
षड्जीवनिकायत्राता सप्तभीस्थानवर्जितः । विमुक्ताष्टमदस्थानः स नवब्रह्मगुप्तिकः ॥२२६ ॥ दधद्दशविधं धर्म सम्यगेकादशाङ्गभृत् । तपो द्वादशधा कुर्वन् द्वादशप्रतिमारुचिः ।। २२७ ।। दुःसहामपि सहिष्णुः परीषहपरंपराम् । निरीहो नन्दनमुनिवर्षलक्षं तपोऽकरोत् ।। २२८ ॥
॥सप्तभिः कुलकम् ।। अर्हद्भक्त्यादिभिः स्थानैर्विंशत्यापि महातपाः । दुरर्जमर्जयामास तीर्थकृन्नामकर्म सः ॥ २२९ ॥ स निष्कलंकं श्रामण्यं चरित्वा मूलतोऽपि हि । आयुःपर्यन्तसमये व्यधादाराधनामिति ॥ २३० ॥ ज्ञानाचारोऽष्टधा प्रोक्तो यः कालविनयादिकः । तत्र मे कोऽप्यतीचारो योऽभून्निन्दामि तं त्रिधा ।।२३१ ॥ यः प्रोक्तो दर्शनाचारोऽष्टधा निःशंकितादिकः । तत्र मे योऽतिचारोऽभूत्रिधापि व्युत्सृजामि तम् ॥२३२ ।। या कृता प्राणिनां हिंसा सूक्ष्मा वा बादरापि वा । मोहाद्वा लोभतो वापि व्युत्सृजामि त्रिधापि ताम् ।।२३३ ।। हास्यभीलोभक्रोधाद्यैर्यन्मृषा भाषितं मया । तत्सर्वमपि निन्दामि प्रायश्चित्तं चरामि च ॥ २३४ ॥ अल्पं भूरि च यत्क्वापि परद्रव्यमदत्तकम् । आत्तं रागादथ द्वेषात्तत्सर्वं व्यत्सृजाम्यहम् ॥ २३५ ॥ तैरश्चं मानुषं दिव्यं मैथुनं मयका पुरा । यत्कृतं त्रिविधेनापि त्रिविधं व्युत्सृजामि तत् ।। २३६ ॥ बहुधा यो धनधान्यपश्वादीनां परिग्रहः । लोभदोषान्मयाऽकारि व्युत्सृजामि त्रिधापि तम् ।। २३७ ।।
नन्दनराजभववर्णनम् ।
|॥१९॥