________________
दशमं पर्व
प्रथमः
त्रिषष्टिशलाकापुरुषपरिते
॥१८॥
सर्गः श्रीमहावीरजिनचरितम् ।
सेनान्या साधयित्वा च द्वितीयं गांगनिष्कुटम् । जितषखंडविजयश्चक्री मूकां पुरी ययौ ।। २१२ ॥ चक्रभृत्त्वाभिषेकोऽस्य चक्रे द्वादशवार्षिकः । अमरैर्नृवरैश्चापि महोत्सवपुरःसरम् ।। २१३ ॥ नीत्या पालयतस्तस्य पृथिवीं पृथिवीपतेः । एकदा पोट्टिलाचार्य उद्याने समवासरत् ।। २१४ ॥ धर्म तदन्तिके श्रुत्वा राज्ये न्यस्य स्वमात्मजम् । स प्रवव्राज तेपे च वर्षकोटीं तपः परम् ॥२१५ ।। पूर्वलक्षचतुरशीत्यायुः संन्यासपूर्वकम् । मृत्वा शुक्रे स सर्वार्थविमाने त्रिदशोऽभवत् ।। २१६ ।। च्युत्वेह भरते छत्रायां पुर्या जितशत्रुतः । भद्रादेव्यां सोऽजनिष्ट नन्दनो नाम नन्दनः ।। २१७ ।। तं न्यस्योद्यौवनं राज्ये जितशत्रुर्महीपतिः । संसारवासनिर्विण्णः परिव्रज्यामुपाददे ।। २१८ ॥ लोकानां हृदयानन्दो नन्दनोऽपि वसुन्धराम् । यथाविधि शशासैना पाकशासनशासनः ।। २१९ ।। चतुर्विंशत्यब्दलक्षी जन्मतोऽतीत्य नन्दनः । विरक्तः पोट्टिलाचार्यसमीपे व्रतमाददे ।। २२० । मासोपवासैः सततैः श्रामण्यं स प्रकर्षयन् । व्यहार्षीद् गुरुणा सार्धं ग्रामाकरपुरादिषु ।। २२१ ।। उभाभ्यामपध्यानाभ्यां बन्धनाभ्यां च वर्जितः । त्रिभिदँडैौरवैश्च शल्यैश्च रहितः सदा ।। २२२ ।। प्रक्षीणचतुष्कषायश्चतुःसंज्ञाविवर्जितः । चतुर्विकथारहितश्चतुर्धर्मपरायणः ।। २२३ ।। चतुर्विधैरुपसगैरपरिस्खलितोद्यमः । व्रतेषु पञ्चसूधुक्तो द्वेषी कामेषु पञ्चसु ।। २२४ ।। पञ्चप्रकारस्वाध्यायप्रसक्तः प्रतिवासरम् । बिभ्राणः समितीः पञ्च जेता पञ्चेन्द्रियाणि च ।। २२५ ॥
प्रियमित्रचक्रिभववर्णनम् ।
॥१८॥