SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ दशमं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥१७॥ सर्गः श्रीमहावीरजिनचरितम् । कृताष्टमस्य प्रत्यक्षीभूय सिन्धुर्महीपतेः । रत्नभद्रासने दिव्ये प्रददौ भूषणानि च ।। १९९ ।। तां विसृज्य स वैताढ्यं चक्ररत्नानुगो ययौ । वैताढ्याद्रिकुमारं चासाधयद्विहिताष्टमः ।। २०० ।। गतस्याभितमिस्रं चाष्टमस्थस्य महीपतेः । कृतमालः स्त्रीरत्नाईमन्यच्चाभरणं ददौ ।। २०१ ।। उत्तीर्य चर्मणा सिन्धु सेनानीश्चक्रिशासनात् । लीलया साधयामास सिन्धोः प्रथमनिष्कुटम् ।। २०२ ॥ भूयोऽप्यभ्येत्य सेनानीः प्रियमित्रस्य शासनात् । कृताष्टमो दंडघातात्तमिस्रामुदघाटयत् ।। २०३ ।। चक्रयारुढो गजरलं तत्कंभे न्यस्य दक्षिणे । मणिरत्नं प्रकाशाय तमिस्रां प्राविशद् गुहाम् ।। २०४ ॥ काकिण्या मंडलान्यर्कमंडलाभानि पार्श्वयोः । लिखन् गुहायां द्योताय चक्री चक्रानुगो ययौ ॥२०५ ॥ पद्ययोन्मग्नानिमग्ने नद्यौ तीर्वा महीपतिः । स्वयमुद्वटितेनोदग्द्वारेण निरंगागिरेः ।। २०६ ।। आपातनाम्नः किरातानजैषीत्तत्र चक्रभृत् । असाधयच्च सेनान्या द्वितीयं सिंधुनिष्कुटम् ।। २०७ ।। चक्रानुगो निवृत्याथ भूपो वैताढ्यमभ्यगात् । वशीचक्रे द्वयोः श्रेण्योस्तत्र विद्याधरांश्च सः ।। २०८ ॥ साधयित्वा स सेनान्या गांगं प्रथमनिष्कुटम् । स्वयमष्टमभक्तेन गंगादेवीमसाधयत् ।। २०९ ॥ खंडप्रपातया सेनान्युद्धाटितकपाटया । वैताढ्यानेर्निर्जगाम ससैन्योऽपि महीपतिः ।। २१०।। अथाष्टमतपःस्थस्य प्रियमित्रस्य चक्रिणः । नवापि निधयोऽभूवन्नैसर्पाद्या वशंवदाः ।। २११ ।। १रंगा प्रियमित्रचक्रिभववर्णनम् । ॥१७॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy