________________
त्रिषष्टि
शलाका
पुरुषचरिते
119&11
चतुर्दशमहास्वप्नाख्यातचक्रधरर्द्धिकः । काले तया च सुषुवे सूनुः संपूर्णलक्षणः ।। १८५ ।। प्रियमित्र इति नाम पितरौ तस्य चक्रतुः । पित्रोर्मनोरथैः सार्धं क्रमेण ववृधे च सः ।। १८६ ॥ अथ संसारनिर्विण्णो धनञ्जयमहीपतिः । प्रियमित्रं सुतं राज्ये निधाय व्रतमाददे ।। १८७ ।। प्रियामिव भुवं पातुः प्रियमित्रस्य भूपतेः । चतुर्दश महारत्नान्युदपद्यन्त च क्रमात् ॥ १८८ ॥ षट्खंडं विजयं जेतुं चक्रमार्गानुगोऽचलत् । गत्वा च पूर्वाभिमुखं मागधं तीर्थमासदत् ।। १८९ ।। कृत्वाऽष्टमतपस्तत्र चतुरङ्गचमूवृतः । चतुर्थान्ते रथारूढः किञ्चिद्गत्वाऽग्रहीद्धनुः ।। १९० ।। मागधतीर्थकुमारं समुद्दिश्य महाभुजः । कंकपत्रं स्वनामांकं गरुत्मन्तमिवाक्षिपत् ।। १९१ ।। योजनानि द्वादशेषः स लंघित्वा विहायसा । पुरो मागधदेवस्य पपातोत्पातवज्रवत् ।। १९२ ।।
मुमूर्षणा के क्षिप्त इत्यभिचिन्तयन् । मागधेशो रुषोत्थाय तं जग्राह शिलीमुखम् ॥ १९३ ॥ चक्रिनामाक्षरश्रेणीं वीक्ष्य शान्तीभवन् क्षणात् । उपायनान्युपादाय प्रियमित्रं स आययौ ।। १९४ ॥ आज्ञाधरस्तवास्मीति जल्पन् व्योमस्थितो नृपम् । पूजयामास विविधोपायनैः स उपायवित् ।। १९५ ।। तं सत्कृत्य विसृज्याथ वलित्वा पारणं व्यधात् । चक्री मागधदेवस्य चक्रे चाष्टानिकोत्सवम् ॥ १९६ ।। ततो जगाम याम्यायां कर्कस्थित इवार्यमा । वरदामानममरं नृपः प्राग्वदसाधयत् ।। १९७ ॥ गत्वा प्रतीच्यां प्रभासतीर्थेशमपि चक्रभृत् । विधिना साधयामास प्रति सिन्धुं जगाम च ।। १९८ ।
दशमं पर्व प्रथमः सर्गः
श्रीमहावीर
जिनचरितम् ।
प्रियमित्रचक्रिभव
वर्णनम् ।
119 & 11