________________
त्रिषष्टि
शलाका
पुरुषचरि
119411
तयोः सर्वेऽपि राजानः सद्योऽपि प्रणतिं ययुः । ताभ्यां चासाधि भरतक्षेत्रयाम्यार्धमोजसा ।। १७१ ।। शिला कोटिशिलां दोष्णोत्पाट्य मूर्ध्यातपत्रवत् । प्रथमः पुंडरीकाक्षो धारयामास लीलया ।। १७२ ।। विक्रमाक्रान्तभूचक्रः स पोतनपुरं ययौ । अभिषिक्तश्चार्धचक्रिपदे देवैर्नृपैरपि ।। १७३ ॥ यद्यद्रत्नं दूरतोऽपि त्रिपृष्ठं तत्तदाश्रयत् । रत्नीभूता गायनेषु तमेयुः केऽपि सुस्वराः ।। १७४ ।। एकदा तेषु गायत्सु शय्यापालं हरिर्निशि । ऊचे मयि शयानेऽमी विस्रष्टव्यास्त्वया खलु ।। १७५ ।। ओमेत्यूचे तल्पपाल आगान्निद्रा च शार्ङ्गिणः । तद्गीतलुब्धो व्यस्राक्षीद्गायनान्सोऽपि तान्न हि ।। १७६ ।। तेषु गायत्सु चोत्तस्थौ विष्णुरुचे च ताल्पिकम् । त्वया विसृधः किं नामी सोऽप्यूचे गीतलोभतः ।। १७७ ।। तच्छ्रुत्वा कुपितो विष्णुः प्रभाते तस्य कर्णयोः । अक्षेपयत्त्रपु तप्तं शय्यापालो मृतश्च सः ।। १७८ ॥ त्रिपृष्ठः कर्मणा तेन वेद्यं कर्म न्यकाचयत् । प्रभुत्वादन्यदप्युग्रं कर्माऽबध्नाद् दुरायति ॥ १७९ ॥ अहिंसादिष्वविरतो महारम्भपरिग्रहः । चतुरशीत्यब्दलक्षीं प्राजापत्योऽत्यवाहयत् ॥ १८० ॥ मृत्वा च सप्तमावन्यामुदपद्यत नारकः । तद्वियोगात्प्रव्रजितोऽचलो मृत्वा शिवं ययौ ।। १८१ ॥ त्रिपृष्ठजीवो नरकादुद्धृत्यऽजनि केसरी । केसर्यपि विपन्नः संश्चतुर्थं नरकं ययौ ।। १८२ ॥ सोऽथ तिर्यङ्मनुष्यादिभवान् बभ्राम भूरिशः । लब्ध्वा च मानुषं जन्म शुभं कर्मैकदाऽऽर्जयत् ॥ १८३ ॥ ततोऽपरविदेहेषु मूकायां पुरि भूपतेः । धनंजयस्य धारिण्याः पल्याः कुक्षाववातरत् ।। १८४ ।।
दशमं पर्व
प्रथमः
सर्गः श्रीमहावीर
| जिन
चरितम् ।
त्रिपृष्ठभववर्णनम् ।
119411