________________
त्रिषष्टिशलाकापुरुषचरिते
॥१४॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
इत्युक्त्वा पोतनपुरे तौ कुमारावुपेयतुः । ग्रामीणास्तेऽपि गत्वाऽऽख्यन् हयग्रीवस्य तत्तथा ।। १५७ ।। हयग्रीवोऽपि साशंको जिघांसुर्माययापि तौ । अनुशिष्यादिशद् दूतं प्रजापतिनृपं प्रति ।। १५८ ।। गत्वा स दूतस्तं स्माहोपस्वामि प्रेषयात्मजौ । राज्यं यदनयोः स्वामी प्रदास्यति पृथक् पृथक् ।। १५९ ।। प्रजापतिर्बभाषेऽहं यास्यामि स्वामिनं स्वयम् । कृतं मम कुमाराभ्यां गताभ्यां तत्र सुन्दर! ॥१६० ॥ दूतो भूयोऽवदत्पुत्रौ न चेत्त्वं प्रेषयिष्यसि । तत्सज्जीभव युद्धाय मा वादीः कथितं न यत् ।। १६१ ॥ इत्युक्तवन्तं तं दूतं तौ कुमारावमर्षणौ । धर्षयित्वा निजपुरान्निरवासयतां क्षणात् ॥ १६२ ॥ दूतो गत्वा तदाचख्यौ हयग्रीवाय धर्षणम् । हयग्रीवोऽपि कोपेन हुताशन इवाज्वलत् ।। १६३ ।। हयग्रीवः ससैन्योऽपि त्रिपृष्ठश्चाचलोऽपि च । युयुत्सवः समभ्येयू रथावर्तमहागिरौ ॥ १६४ ॥ मिथो युयुधिरे सैन्याः पक्षयोरुभयोरपि । सांवर्तिका इवाम्भोदा आस्फलन्तः परस्परम् ॥१६५ ॥ क्षीणक्षीणेषु सैन्येषु सैन्ययुद्धं निषिध्य तौ । अश्वग्रीवस्त्रिपृष्ठश्चायुध्येतां रथिनौ स्वयम् ॥१६६ ॥ मोघीकृतास्त्रोऽश्वग्रीवोऽरिग्रीवोच्छेदलम्पटम् । त्रिपृष्ठायामुचच्चक्रं हाहाकारिजनेक्षितम् ॥ १६७ ।। त्रिपृष्ठोरःस्थले चक्रं तुम्बेन निपपात तत् । शरभो रभसोद्भ्रान्त इव पर्वतसानुनि ॥१६८ ॥ वीरप्रेष्ठस्त्रिपृष्ठोऽथ तेन चक्रेण लीलया । चकर्त हयकंठस्य कंठमभोजनालवत् ।। १६९ ।। अचलश्च त्रिपृष्ठश्च प्रथमौ हलिशाह्मिणौ । इत्याघोषि सुरैयाम्नि पुष्पवृष्टिपुरस्सरम् ।। १७० ।।
त्रिपृष्ठभववर्णनम् ।
1॥१४॥