________________
त्रिषष्टिशलाकापुरुषचरिते
॥१३॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
चक्रुः कलकलं चोच्चैस्तद्गुहापार्श्वयोर्जनाः । तं श्रुत्वा निर्ययौ जृम्भादीर्णवक्त्रः स केसरी ।।१४३ ।। रथिकोऽहमसौ पत्तिरित्याजिन समाऽऽवयोः । इति त्रिपृष्ठः फलकासिधरोऽवातरद्रथात् ।। १४४ ।। दंष्ट्राकरजशस्त्रोऽयं फलकासिधरस्त्वहम् । नैतदयप्युचितमिति चर्मासी व्यमुचद्धरिः ॥१४५ ॥ तत्प्रेक्ष्य केसरी जातजातिस्मृतिरचिन्तयत् । एकं धाय॑महो एको यदागान्मगुहामसौ ।। १४६ ॥ अन्यद्रथादुत्तरणं तृतीयं शस्त्रमोचनम् । दुर्मदं तन्निहन्म्येष मदान्धमिव सिन्धुरम् ।। १४७ ।। विचिन्त्यैवं क्षणं व्यात्ताननः पञ्चाननाग्रणीः । दत्वा फालामुत्पपातोपत्रिपृष्ठं पपात च ।। १४८ ।। एकेन पाणिनोोष्ठमपरेणाधरं पुनः । धृत्वा त्रिपृष्ठस्तं सिंह जीर्णवस्त्रमिवादृणात् ।। १४९ ॥ पुष्पाभरणवस्त्राणि ववृषुर्देवता हरौ । लोकाश्च विस्मयस्मेराः साधु साध्विति तुष्टुवुः ॥ १५० ॥ अहो कथमनेनाहं कुमारेणाद्य मारितः । इत्यमर्षात् स्फुरंस्तस्थौ द्विधाभूतोऽपि केसरी ॥१५१।। गणभृगौतमजीवोऽन्त्याहज्जीवस्य शाङ्गिणः । तदानीं सारथिः सिंह तं स्फुरन्तमदोऽवदत् ।। १५२ ॥ नृष्वेष सिंहः पशुषु त्वं तु तन्मारितोऽमुना । मुधाऽपमानं किं धत्से न हीनेन हतोऽसि यत् ।। १५३ ॥ सुधयेव तया वाचा प्रीतो मृत्वा स केसरी । चतुर्थ्यां नरकावन्यां नारकः समजायत ।। १५४ ।। तच्चर्मादाय कुमारौ चलितौ स्वपुरं प्रति । ग्राम्यानित्युचतुर्वाजिग्रीवस्यैतद्धि कथ्यताम् ।।१५५ ।। शालीन खाद यथेष्टं त्वं विश्वस्तस्तिष्ठ संप्रति । असौ हृदयशल्यं ते केसरी यन्निपातितः ।। १५६ ॥
त्रिपृष्ठभववर्णनम् ।
19