________________
त्रिषष्टिशलाकापुरुषचरिते
॥१२॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
स प्रजापतिनान्येधुर्विसुष्टोऽभ्यर्च्य गौरवात् । ययौ कुमारयोराशु ज्ञापितश्च निजैनरैः ।। १३० ॥ गत्वा कुमारौ मार्गार्धे तमकुट्टयतां भटैः । पलायांचक्रिरे सद्यस्तत्सहायास्तु काकवत् ।। १३१ ॥ तत्प्रजापतिना ज्ञात्वा भीतेनानायितो गृहे । सत्कृत्य चाधिकं चंडवेग एवमभाष्यत ।। १३२ ॥ कुमारयोर्दुर्विनयं मा स्माख्यः स्वामिनः खलु । अज्ञानजाद् दुर्विनयान्न कुप्यन्ति महाशयाः ।। १३३ ।।
ओमित्युक्त्वा ययौ दूतस्तत्पौंस्नात्त्वग्रतो गतात् । विदाञ्चकाराश्वग्रीवस्तद्धर्षणमशेषतः ॥ १३४ ।। तद्विदं च हयग्रीवं ज्ञात्वा दूतो यथातथम् । स्वधर्षणं तदाचख्यावलीकाख्यानकातरः ।। १३५ ।। अश्वग्रीवेण शिष्ट्वाऽन्यः प्रहितो ना प्रजापतिम् । गत्वावोचद्रक्ष सिंहाच्छालीनाज्ञा प्रभोरियम् ॥ १३६ ।। प्रजापतिः सुतावूचे युवाभ्यां कोपितः प्रभुः । प्रददौ यदवारेऽपि शासनं सिंहरक्षणे ।। १३७ ।। इत्युक्त्वा प्रस्थितं भूपं कुमारौ प्रतिषिध्य तौ । प्रजग्मतुः शंखपुरं सिंहयुद्धसकौतुकौ ।। १३८ ॥ अन्येऽरक्षन्नृपाः सिंहं कथंकारं कियच्चिरम् । इति पृष्टस्त्रिपृष्ठेन शशंसुः शालिगोपकाः ।।१३९ ।। चतुरंगचमूवप्रं कृत्वाऽरक्षन् क्षमाभुजः । आशालिग्रहणमहो वर्षवारक्रमागताः ।। १४० ॥ ऊचे त्रिपृष्ठस्तानेवं स्थास्यतीयच्चिरं हि कः । तद्दर्शयत मे सिंह यथैकाकी निहन्मि तम् ।। १४१ ।। ततस्तेऽदर्शयत् सिंहं तुंगाचलगुहागतम् । जग्मतुश्च रथारुढी तां गुहां रामशाङ्गिणौ ।। १४२ ।। टि. * तस्य चंडवेगस्य पुरुषसमूहात् ।
त्रिपृष्ठभववर्णनम् ।
॥१२॥