________________
त्रिषष्टिशलाका
पुरुषचरिते
1199 11
तत्पितापि स्वप्रजायाः पतित्वेनाखिलैर्जनैः । प्रजापतिरिति प्रोचे बलीयः कर्म नाम हि ।। ११७ ।। विश्वभूतिश्च्युतः शुक्रान्मृगावत्या अथोदरे । सप्तस्वप्नसमाख्यातविष्णुभावः समागमत् ।। ११८ ॥ तया च काले सुषुवे सूनुः प्रथमशार्ङ्गभृत् । त्रिकरंडकपृष्ठत्वात् त्रिपृष्ठ इति संज्ञितः ॥ ११९ ॥ अशीतिधनुरुत्तुंगो रममाणोऽचलेन सः । अधीतसकलकलः क्रमेण प्राप यौवनम् ।। १२० ।। विशाखनन्दिजीवोऽथ भवं भ्रान्त्वा मृगाधिपः । जातस्तुंगगिरौ शंखपुरदेशमुपाद्रवत् ।। १२१ ।। तदानीमश्वग्रीवेण भूभुजा प्रतिविष्णुना । मम मृत्युः कुत इति पृष्टो नैमित्तिकोऽवदत् ॥ १२२ ॥ हन्ता स ते चंडवेगं यो दूतं धर्षयिष्यति । मारयिष्यति यस्तुंगगिरिसिंहं च हेलया ।। १२३ ।। अश्वग्रीवस्ततः शंखपुरे शालीनवापयत् । तद्रक्षार्थं चादिदेश वारकेण महीपतीन् ।। १२४ ॥ सोऽश्रौषीच्च महावीर्यौ पुत्रौ राज्ञः प्रजापतेः । तस्मै द्रुतं चंडवेगं प्रैषीच्चार्थेन केनचित् ।। १२५ । प्रजापतेः कारयतः संगीतं निजपर्षदि । अकस्मात्प्राविशच्चंडवेगः स्वामिबलोन्मदः ।। १२६ ॥ आगमाध्ययनस्येवाकालविद्युत्समुद्गमः । स विघ्नभूतो गीतस्याभ्युत्तस्थे तेन भूभुजा ।। १२७ ।। मंत्रिणश्च कुमाराभ्यां पृष्टा आख्यन् पुमानयम् । प्रधानभूतोऽश्वग्रीवमहाराजस्य दोष्मतः ।। १२८ ।। यदा व्रजत्ययं दूतो ज्ञापनीयस्तदा हि नौ । इति स्वकीयानचलत्रिपृष्ठावूचतुर्नरान् ॥ १२९ ॥
दशमं पर्व प्रथमः
सर्गः
श्रीमहावीर
जिनचरितम् ।
त्रिपृष्ठ
भववर्णनम् ।
1199 11