________________
त्रिषष्टिशलाकापुरुषचरिते
॥१०॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीर
जिनचरितम् ।
विशाखानन्दिनः सोऽथ शिबिराभ्यर्णमागतः । विश्वभूतिः कुमारोऽसावित्यदर्यत पूरुषैः ।।१०३।। विशाखानन्दी तं सद्यः प्रेक्ष्य द्विषमिवाकुपत् । गवैकया विश्वभूतिः पर्यस्तश्च तदाऽपतत् ।। १०४ ।। कपित्थपातनं स्थाम क्व ते चेत्यहसच्च सः । धृत्वा गां शृंङ्गयोर्विश्वभूतिश्चाभ्रमयक्रुधा ।। १०५ ॥ भूयिष्ठवीर्यो भूयासं मृत्यवेऽस्य भवान्तरे । अनेन तपसोग्रेण निदानमिति सोऽकरोत् ।। १०६ ॥ संपूर्य कोटिवर्षायुरनालोच्य च तन्मृतः । विश्वभूतिर्महाशुक्रे प्रकृष्टायुः सुरोऽभवत् ॥ १०७ ।। इताश्चात्रैव भरते नगरे पोतनाभिधे । अभूद्रिपुप्रतिशत्रुर्नाम राजा महाभुजः ॥१०८ ॥ तस्य भद्रेति पल्यासीत्तस्यां सूनुरजायत । चतुर्भिः सूचितः स्वप्नैर्बलभद्रोऽचलाभिधः ॥ १०९ ।। मृगावतीति नाम्नाऽभूत् पुत्री च मृगलोचना । सोद्यौवना रुपवती प्रणन्तुं पितरं ययौ ॥ ११०।। जातानुरागस्तां प्रेक्ष्य निजोत्सगं न्यधत्त सः । तत्पाणिग्रहणोपायं विचिन्त्य व्यसृजच्च ताम् ।। १११॥ पौरवृद्धानथाहूय पप्रच्छेदं महीपतिः । यदत्र जायते रत्नं तत्कस्य ब्रूत निर्णयम् ? ॥११२ ॥ तवेति ते समाचख्युस्त्रिरुपादाय तद्वचः । मृगावतीं परिणेतुं तत्र चानाययन्नृपः ॥११३॥ जग्मुस्ते लज्जिताः सर्वे पार्थिवोऽपि मृगावतीम् । गान्धर्वेण विवाहेन स्वयमेव युपायत ॥ ११४ ॥ लज्जाक्रोधाकुला भद्रा देवी मुक्त्वा महीपतिम् । सहाचलेन निर्गत्य प्रययौ दक्षिणापथे ॥११५ ॥ पुरी माहेश्वरी तत्र विरचय्याचलो नवाम् । मातरं तत्र संस्थाप्य जगाम पितुरन्तिके ।।११६ ॥ १ छन्दःपूर्त्यर्थं पू:' दीर्घः ।।
HASKRISHABHARASHRSHASHALA
विश्वभूतिभववर्णनम् ।
॥१०॥