________________
त्रिषष्टिशलाकापुरुषचरिते
॥९॥
दशमं पर्व प्रथमः उर्ग: श्रीमहावीरजिनचरितम् ।
ताभ्यो ज्ञात्वा प्रियंगुस्तत् कोपौकः कुपिता ययौ । तदीप्सितार्थं राजापि यात्राभेरीमवादयत् ।। ९१ ॥ उवृत्तः पुरुषसिंहः सामन्तस्तज्जयाय तत् । यास्यामीति सभामध्ये मायया चावदन्नृपः ।। ९२ ॥ तच्च श्रुत्वा विश्वभूतिर्ऋजुरेत्य वनात्ततः । भक्त्या निवार्य राजानं प्रयाणमकरोत् स्वयम् ।। ९३ ॥ गतश्च पुरुषसिंहं दृष्टवाऽऽज्ञावर्तिनं पुनः । ववले तत्र च ययौ वने पुष्पकरण्डके ।। ९४ ॥ विशाखनन्दी मध्येऽस्तीत्युक्तो द्वाःस्थेन तत्र सः । अचिन्तयन्माययाऽहं कृष्टः पुष्पकरण्डकात् ।। ९५ ।। क्रुद्धः कपित्थं मुष्ट्याहस्तत्फलैः पतितैर्भुवम् । छादितां दर्शयन्सोऽथ जगाद द्वारपालकम् ।। ९६ ॥ पातयामि शिरांस्येवं सर्वेषां भवतां पुनः । ज्यायसि ज्यायसी ताते न चेद्भक्तिर्भवेन्मम ।। ९७ ॥ भोगैरीदृग्वञ्चनाद्यैर्ममालमिति स ब्रुवन् । संभूतमुनिपादान्ते गत्वा व्रतमुपाददे ।। ९८ ॥ तं च प्रव्रजितं श्रुत्वा राजा सावरजोऽप्यगात् । नत्वा च क्षमयित्वा च राज्यार्थयते च ।। ९९ ।। विश्वभूतिमनिच्छन्तं ज्ञात्वा भूपोऽगमद् गृहम् । ततो व्यहार्षीदन्यत्र स पुनर्गुरुणा सह ।। १०० ।। स गुर्वनुज्ञयैकाकिविहारेण तपःकृशः । विहरन्नेकदागच्छन्नगरी मथुराभिधाम् ।। १०१ ।। तदा विशाखनन्द्यागादुद्वोढुं तन्नृपात्मजाम् । विश्वभूतिश्च मासान्ते पारणायाविशत्पुरीम् ।। १०२ ॥ टि. * उद्धतः ।
विश्वभूतिभववर्णनम् ।
॥९॥