SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाका पुरुषचरित दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् । ॥८॥ च्युत्वा चाऽभूत् स सुत्रिदण्डयभूत् प्रान्तीभवति भूत्वा त्रिदण्डीकः पूर्वलक्षद्वासप्ततिप्रमम् । अतीत्यायुः स सौधर्मे सुरोऽभून्मध्यमस्थितिः ।।७८ ॥ च्युत्वा चैत्ये सन्निवेशेऽग्न्युद्योतः स द्विजोऽभवत् । पूर्वलक्षचतुःषष्ट्यायुष्कः प्राग्वत्रिदण्ड्यभूत् ।।७९ ॥ मृत्वैशाने मध्यमायुः सोऽभूद्देवस्ततश्च्युतः । मन्दिरे सन्निवेशेऽभुदग्निभूतिरिति द्विजः ।। ८० ॥ षट्पञ्चाशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । मृत्वा सनत्कुमारे च मध्यमायुः सुरोऽभवत् ।। ८१ ।। च्युत्वा च श्वेतवीपुर्यां भारद्वाजोऽभवद् द्विजः । चतुश्चत्वारिंशत्पूर्वलक्षायुः स त्रिदण्ड्यभूत् ।। ८२ ।।। मृत्वा माहेन्द्रकल्पेऽभूत् स सुरो मध्यमस्थितिः । च्युत्वा भ्रान्त्वा भवं राजगृहेऽभूत्स्थावरो द्विजः ।। ८३ ॥ चतुस्त्रिशत्पूर्वलक्षायुष्कः सोऽपि त्रिदण्ड्यभूत् । विपद्य च ब्रह्मलोके मध्यमायुः सुरोऽभवत् ।। ८४ ॥ ब्रह्मलोकात्परिच्युत्य स बभ्राम बहून् भवान् । भवो ह्यनन्तीभवति स्वकर्मपरिणामतः ।। ८५ ॥ इतश्चाभूद्राजगृहे विश्वनन्दी महीपतिः । पल्यां प्रियंगौ विशाखनन्दी तस्याभवत्सुतः ।। ८६ ॥ विशाखभूतिर्युवराड् राज्ञस्तस्यानुजोऽभवत् । युवराजस्य तस्याभूद्धारिणी नामतः प्रिया ।। ८७ ॥ मरीचिजीवः प्राग्जन्मोपार्जितैः शुभकर्ममिः । विशाखभूतेर्धारिण्यां विश्वभूतिः सुतोऽभवत् ।।८८ ।। उद्यौवनो विश्वभूतिर्वने पुष्पकरण्डके । रेमे सान्तःपुरो देवकुमार इव नन्दने ।। ८९ ।। विशाखनन्दी क्रीडेच्छू राट्पुत्रोऽस्थात्तु तद्बहिः । पुष्पाद्यर्थं गता दास्यो ददृशुस्तौ तथास्थितौ ॥९० ।। मध्यवर्तिनोभवाः । ||८॥
SR No.009659
Book TitleTrishashti Shakala Purush Charitam Part 6
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages458
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size78 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy