________________
त्रिषष्टिशलाकापुरुषचरिते
दशमं पर्व प्रथमः सर्गः श्रीमहावीर
1७॥
जिन
चरितम् ।
एवं ध्यायन् विधिवशान्मरीचिरभवत् पटुः । अन्यदा मिलितश्चास्य कपिलः कुलपुत्रकः ।। ६६ ।। धर्मार्थी ज्ञापितस्तेन कपिलो धर्ममार्हतम् । किं स्वयं न करोषीति सोऽपृच्छि कपिलेन च ।। ६७ ॥ मरीचिरवदद्धर्म नैनं कर्तुमहं क्षमः । कपिलोऽप्यब्रवीत् किं त्वन्मार्गे धर्मो न विद्यते ? ॥६८ ॥ जिनधर्मालसं ज्ञात्वा शिष्यमिच्छन् स तं जगौ । मार्गे जैनेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते ।।६९।। तच्छिष्यः कपिलोऽथाभून्मिथ्याधर्मोपदेशनात् । मरीचिरप्यब्धिकोटिकोटीसंसारमार्जयत् ॥ ७० ॥ मरीचिस्तदनालोच्य विहितानशनो मृतः । ब्रह्मलोके दशोदन्वत्प्रमितायुः सुरोऽभवत् ॥७१ ॥ शिष्यान् विधायासूर्यादीन् स्वाचारानुपदिश्य च । विपद्य च ब्रह्मलोके कपिलोऽप्यमरोऽभवत् ।। ७२ ।। स प्राग्जन्मावधेर्ज्ञात्वा मोहादभ्येत्य भूतले । स्वयं कृतं सांख्यमतमासूर्यादीनबोधयत् ।।७३ ॥ तदाम्नायादत्र सांख्यं प्रावर्तत च दर्शनम् । सुखसाध्ये ह्यनुष्ठाने प्रायो लोकः प्रवर्तते ।।७४ ।। च्युत्वा मरीचिजीवोऽपि कोल्लाके सन्निवेशने । कौशिकाख्यः पूर्वलक्षाशीत्यायुर्ब्राह्मणोऽभवत् ।। ७५ ।। स सदा विषयासक्तो द्रव्योपार्जनतत्परः । हिंसादिषु च निःशूकः कालं भूयांसमत्यगात् ।।७६ ।। सोऽन्ते त्रिदण्डी भूत्वा च मृत्वा भ्रान्त्वा बहून् भवान् । स्थूणाख्ये सन्निवेशेऽभूत् पुष्पमित्राभिधो द्विजः ॥७७ ॥
मरीचिभववर्णनम् ।
| 19॥