________________
त्रिषष्टिशलाका
पुरुषचरिते ॥६॥
चक्री विदेहमूकायां प्रियमित्रोऽभिधानतः । पारिव्राज्यं न ते वन्द्यं भाव्यर्हन्निति वन्द्यसे ।। ५४ ॥ तमित्युक्त्वा चक्रवर्ती प्रणम्य स्वामिनं पुनः । विनीतात्मा प्रविवेश विनीतां मुदितः पुरीम् ।। ५५ ।। तदाकर्ण्य मरीचिस्त्रिरास्फोट्य त्रिपदीं मुदा । इत्युवाचोच्चकैर्विष्णुर्भविष्यामि यदादिमः ॥ ५६ ॥ मूकानगर्यां मे चक्रवर्तित्वं च भविष्यति । भाव्यहं चरमश्चार्हन् पर्याप्तमपरेण मे ॥ ५७ ॥ आद्योऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् । पितामहस्तीर्थकृतामहो मे कुलमुत्तमम् ॥ ५८ ॥ एवं जातिमदं कुर्वन् भुजावास्फोटयन्मुहुः । नीचगोत्राभिधं कर्म मरीचिः समुपार्जयत् ।। ५९ । ऋषभस्वामिनिर्वाणादूर्ध्वं सार्धं स साधुभिः । विहरन् प्रबोध्य भव्यान् प्राहिणोत् साधुसन्निधौ ॥ ६० ॥ व्याधिभिश्चान्यदा ग्रस्तोऽसंयमीति स साधुभिः । अपाल्यमानो ग्लानः सन्मनस्येवं व्यचिन्तयत् ॥ ६१ ॥ अहो अमी साधवो धिनिर्दाक्षिण्याः कृपोज्झिताः । स्वार्थमात्रोद्यता लोकव्यवहारपराङ्मुखाः ।। ६२ ॥ यन्मां परिचितं स्निग्धमप्येकगुरुदीक्षितम् । विनीतमपि नेक्षन्ते दूरेऽस्तु मम पालनम् ।। ६३ ।। यद्वा दुश्चिन्तितं मेऽदो यदमी स्वतनोरपि । परिचर्यां न कुर्वन्ति भ्रष्टस्य तु कथं मम ॥ ६४ ॥ अनेन व्याधिना मुक्तस्तत् स्वस्य प्रतिचारकम् । कञ्चिच्छिष्यं करिष्यामि स्वलिङ्गेनामुनैव हि ॥ ६५ ॥ टि. * पश्चात् ।
दशमं पर्व
प्रथमः
सर्गः श्रीमहावीरजिन
चरितम् ।
मरीचि - भववर्णनम् ।
॥६॥