________________
त्रिषष्टिशलाकापुरुषचरिते
॥५॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिनचरितम् ।
त्यजन्त्यमी जलारम्भं बहुजीवोपमर्दकम् । स्नानं पानं च पयसा मितेन भवताच्च मे ।। ४२ ॥ एवं विकल्प्य स्वधिया लिङ्गनिर्वाहहेतवे । पारिव्राज्यं प्रत्यपादि मरीचिः क्लेशकातरः ।।४३ ।। तादृग्वेषं च तं दृष्टवाऽपृच्छद्धर्म जनोऽखिलः । साधुधर्म समाचख्यौ सोऽपि तेषां जिनोदितम् ।। ४४ ॥ किं त्वं स्वयं नाचरसीत्य युक्तः पुनर्जनैः । मेरुभारं न तं वोढुमीशोऽस्मीति शशंस सः ॥४५ ।। धर्माख्यानप्रतिबुद्धान् स तु भव्यानुपस्थितान् । शिष्यान् समर्पयामास स्वामिने नाभिसूनवे ।। ४६ ।। इत्याचारो विजहार मरीचिः स्वामिना सह । स्वामी च समवासार्षीद्विनीतायां पुनः पुरि ।। ४७ ।। तत्र प्रभुनमस्कृत्य पृष्टो भरतचक्रिणा । भाविनोऽर्हच्चक्रिविष्णुप्रतिविष्णुबलाअगौ ॥४८ ॥ पुनः पप्रच्छ भरतः किं कश्चिदिह पर्षदि । भाव्यत्र भरतक्षेत्रे नाथ ! त्वमिव तीर्थकृत् ।। ४९ ।। मरीचिं दर्शयन्नाख्यत् स्वामी सूनुरयं तव । पश्चिमस्तीर्थकृद्वीरो नाम्ना भावीह भारते ।। ५० ॥ भाव्याद्योऽत्र त्रिपृष्ठाख्यः शाह्मभृत्पोतने पुरे । मूकापुर्यां विदेहेषु प्रियमित्रश्च चक्रभृत् ।। ५१ ॥ तच्छुत्वा नाथमापृच्छ्य मरीचिं भरतो ययौ । त्रिश्च प्रदक्षिणीकृत्य वन्दित्वैवमवोचत ।। ५२ ।। स्वामिनोक्तं चरमस्त्वं भाव्यर्हन्निह भारते । आदिश्च वासुदेवस्त्वं त्रिपृष्ठः पोतनेश्वरः ॥५३ ।।
मरीचिभववर्णनम् ।
॥५॥
चरमः ।
टि. * पृष्टः । १आद्यश्च