________________
दशमं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः
४॥
सर्गः श्रीमहावीरजिनचरितम् ।
सम्यग्ज्ञातयतिधर्मः स्वशरीरेऽपि निःस्पृहः । त्रिगुप्तः पञ्चसमितिर्निष्कषायो महाव्रती ॥३०॥ स्थविराणां पुरोऽङ्गानि पठन्नेकादशापि हि । ऋषभस्वामिना साधं मरीचिळहरच्चिरम् ।।३१ ॥ युग्मम्।। सोऽपरेधुर्गीष्मऋतावुष्णांशुकरदारुणे । प्रतिमार्ग पान्थपादनखंपचरजश्चये ॥ ३२ ॥ स्वेदार्टीभूतसर्वाङ्गमललिप्तांशुकद्वयः । तृष्णार्ताऽचिन्तयदिति चारित्रावरणोदयात् ।। ३३ ॥ युग्मम्।। न श्रामण्यगुणान्मेरुसमभारान् दुरुद्वहान् । निर्गुणोऽहं भवाकाङ्क्षी वोढुं प्रभुरतः परम् ॥ ३४ ॥ किं त्यजामि व्रतं लोके तत्त्यागे लज्ज्यते खलु । लब्धो वाऽयं मयोपायो व्रतं येन क्लमो न च ॥३५॥ श्रमणा भगवन्तोऽमी त्रिदण्डविरताः सदा । अस्तु दण्डैर्निर्जितस्य त्रिदण्डी मम लांछनम् ।।३६ ।। केशलोचादमी मुण्डाः क्षुरमुण्डः शिखी त्वहम् । महाव्रतधराश्चामी स्यामणुव्रतभृत्त्वहम् ।।३७ ।। निष्किञ्चना मुनयोऽमी भूयान्मे मुद्रिकादि तु । अमी विमोहा मोहेन च्छन्नस्य छत्रमस्तु मे ॥३८॥ उपानद्रहिताश्चामी सञ्चरन्ति महर्षयः । पादत्राणनिमित्तं मे भवतामप्युपानही ।।३९ ॥ सुगन्धयोऽमी शीलेन दुर्गन्धः शीलतस्त्वहम् । सौगन्ध्यहेतोर्भवतु श्रीखण्डतिलकादि मे ॥ ४० ॥ अमी शुक्लजरद्वस्त्रा निष्कषाया महर्षयः । भवन्तु मे तु वासांसि *काषायाणि कषायिणः ।। ४१ ।। टि.-* कषायवर्णरक्तानि ।
मरीचिभववर्णनम् ।
॥४॥