________________
त्रिषष्टिशलाकापुरुषचरिते
॥३॥
दशमं पर्व प्रथमः सर्गः श्रीमहावीर
जिन
चरितम् ।
मत्पुण्यै!यमायाता वनेऽत्रातिथयो मम । इत्युक्त्वा भोजनस्थानं स निन्ये तान्महामुनीन् ॥ १८ ॥ स्वार्थोपनीतैः पानान्नैः स मुनीन् प्रत्यलाभयत् । अन्यत्र गत्वा विधिना तेऽप्यमुअत साधवः ।। १९ ।। ग्रामायुक्तोऽपि हि भुक्त्वा गत्वा नत्वाऽवदन्मुनीन् । चलन्तु भगवन्तोऽद्य पूर्मार्ग दर्शयामि वः ।। २० ।। ते तेन सह चेलुश्च प्रापुश्च नगरीपथम् । तरोरधश्वोपविश्य धर्म तस्याचचक्षिरे ।। २१ ॥ स प्रत्यपादि सम्यक्त्वं धन्यंमन्यः प्रणम्य तान् । वलित्वा दारुणि राज्ञे प्रैषीद् ग्रामे स्वयं त्वगात् ।। २२ ।। अथाभ्यस्यन् सदा धर्म सप्ततत्त्वानि चिन्तयन् । सम्यक्त्वं पालयन् कालमनैषीत् स महामनाः ॥२३ ।। विहिताराधनः सोऽन्ते स्मृतपञ्चनमस्कृतिः । मृत्वा बभूव सौधर्मे सुरः पल्योपमस्थितिः ॥ २४ ॥ इतश्चात्रैव भरते विनीतेत्यस्ति पूर्वरा । पुरा युगादिनाथस्य कृते सुरवरैः कृता ।।२५ ।। तत्र श्रीऋषभस्वामिसूनुर्नवनिधीश्वरः । चतुर्दशरत्नपतिर्भरतश्चक्रवर्त्यभूत् ॥ २६ ॥ ग्रामचिन्तकजीवः स च्युत्वाऽभूत्तस्य नन्दनः । मरीचीन् विकिरंस्तेन मरीचिरिति विश्रुतः ॥ २७ ॥ आद्ये समवसरणे ऋषभस्वामिनः प्रभोः । पितृभ्रात्रादिभिः सार्धं मरीचिः क्षत्रियो ययौ ।। २८ ॥ महिमानं प्रभोः प्रेक्ष्य क्रियमाणं स नाकिभिः । धर्म चाकर्ण्य सम्यक्त्वलब्धधीव्रतमाददे ॥ २९ ॥
मरीचिभववर्णनम् ।