________________
त्रिषष्टि
शलाका
पुरुषचरिते ॥२॥
साधुसम्बन्धबाह्योऽपि सोऽकृत्येभ्यः पराङ्मुखः । दोषान्वेषणविमुखो गुणग्रहणतत्परः ।। ६ ।। सोऽन्यदा वरदारुभ्यः पृथिवीपतिशासनात् । सपाथेयो महाटव्यामादाय शकटानगात् ॥ ७ ॥ तस्य च्छेदयतो वृक्षान्मध्यन्दिनमुपाययौ । जठरेऽग्निरिव व्योम्नि दिदीपे तपनोऽधिकम् ॥ ८ ॥ भृतकैर्नयसारस्य सारा रसवती तदा । समयज्ञैरुपनिन्ये मंडपाभतरोरधः ॥ ९ ॥ क्षुधितस्तृषितो वापि यदि स्यादतिथिर्मम । तं भोजयामीति नयसारोऽपश्यदितस्ततः ॥ १० ॥ क्षुधितास्तृषिताः श्रान्ताः सार्थान्वेषणतत्पराः । घर्माम्भः प्लुतसर्वांगाः साधवश्चाययुस्तदा ॥ ११ ॥ साध्वमी साधवो मेऽन्नातिथयः समुपस्थिताः । चिन्तयन्निति नत्वा तान् सोऽब्रवीद् ग्रामचिन्तकः ॥ १२ ॥ भगवन्तो भवन्तोऽस्यामटव्यां कथमागताः । एकाकिनः शस्त्रिणोऽपि पर्यटन्ति न खल्विह ॥ १३ ॥ तेऽप्यभ्यधुर्वयं स्थानात् सार्थेन प्रस्थिताः पुरा । ग्रामे प्रविष्टय भिक्षायै ययौ सार्थस्तदैव हि ।। १४ ।। अनात्तभिक्षाश्चलिताः सार्थस्यानुपदं वयम् । आगच्छन्तो महाटव्यामस्यां निपतितास्ततः ।। १५ ।। नयसारोऽब्रवीदेवमहो ! सार्थोऽतिनिष्कृपः । अहो पापादप्यभीरुरहो विश्वस्तघातकः ।। १६ ।। यत्सहप्रस्थितान् साधून् सार्थप्रत्याशया स्थितान् । * अनागमय्य प्रययौ निजकार्यैकनिष्ठुरः ।। १७ ।।
टि.★ अप्रतीक्ष्य ।
दशमं पर्व प्रथमः सर्गः
श्रीमहावीरजिनचरितम् ।
नयसार
भववर्णनम् ।
IR II