________________
त्रिषष्टिशलाकापुरुषचरिते
॥१॥
(प्रथमः सर्ग:। श्रीमहावीरचरितम् ।
दशमं पर्व प्रथमः सर्गः श्रीमहावीरजिन
र
चरितम् ।
नयसारभववर्णनम् ।
नमो दुर्वाररागादिवैरिवारनिवारिणे । अर्हते योगिनाथाय महावीराय तायिने ॥ १ ॥ अथास्य देवदेवस्य देवासुरनरार्चितम् । चरितं कीर्तयिष्यामः पुण्यवारिसरोवरम् ।। २ ।। अस्यैव जम्बूद्वीपस्य प्रत्यग्विदेहभूषणे । विजयेऽस्ति महावप्रे जयन्ती नामतः पुरी ॥ ३ ॥ दोर्वीर्येण समुत्पन्न इव नव्यो जनार्दनः । महासमृद्धिस्तत्रासीन्नृपतिः शत्रुमर्दनः ॥ ४ ॥ तस्य ग्रामे तु पृथिवीप्रतिष्ठानाभिधेऽभवत् । स्वामिभक्तो नयसाराभिधानो ग्रामचिन्तकः ॥ ५ ॥
॥9॥