________________
दशमं पर्व प्रशस्तिः ।
त्रिषष्टिशलाकापुरुषचरित ||४०७॥
धर्मध्यानसुधासुधांशुरमल-ग्रन्थार्थरत्नाकरो, भव्यांभोरुहभास्करः स्मरकरि-प्रोन्माथकंठीरवः । गच्छे तत्र बभूव संयमधनः, कारुण्यराशिर्यशो-भद्रः सूरिरपूरि येन भुवनं, शुधैर्यशोभिर्निजैः ।। १०॥ ! 2 श्रीमन्नेमिजिनेद्रपावितशिर-स्यद्रौ स संलेखना, कृत्वाऽऽदौ प्रतिपन्नवान्ननशनं, प्रान्ते शुभध्यानभाक् तिष्ठन् शान्तमनास्त्रयोदशदिना-न्याश्चर्यमुत्पादय-त्रुच्चैः पूर्वमहर्षिसंयमकथाः, सत्यापयामासिवान् ॥ ११ ॥
श्रीमान्प्रद्युम्नसूरिः, समजनि जनिता-नेकभव्यप्रबोधस्तच्छिष्यो विश्वविश्व-प्रथितगुणगणः, प्रावृडंभोदवद्यः ।। प्रीणाति स्माखिलक्ष्मां, प्रवचनजलधे-रुद्धृतैरर्थनीरैरातत्य स्थानकानि, श्रुतिविषयसुधा-सारसध्यचि विष्वक् ।। १२ ।। सर्वग्रन्थरहस्यरत्नमुकुरः, कल्याणवल्लीतरुः । कारुण्यामृतसागरः प्रवचन-व्योमांगणाहस्करः ।। चारित्रादिकरत्नरोहणगिरिः, क्ष्मां पावयन् धर्मराट सेनानीर्गुणसेनसूरिरभव-च्छिष्यस्तदीयस्ततः ।। १३ ॥
||४०७॥