________________
त्रिषष्टिशलाकापुरुषचरिते ।।४०६॥
अजनि सुस्थितसुप्रतिबुद्ध इत्यभिधयाऽऽर्यसुहस्तिमहामुनेः । शमधनो दशपूर्वधरोऽन्तिष-द्भवमहातरुभञ्जनकुञ्जरः ।। ४ ।।
| दशमं पर्व प्रशस्तिः ।
महर्षिसंसेवितपादसन्निधेः, प्रचारभागालवणोदसागरम् । महान् गणः कोटिक इत्यभूत्ततो, गंगाप्रवाहो हिमवद्रेिरिव ।। ५ ।। तस्मिन् गणे कतिपयेष्वपि यावत्सु, साधूत्तमेषु चरमो दशपूर्वधारी । उद्दामतुंबवनपत्तनवज्रजानि-वज्रं महामुनिरजायत वज्रसूरिः ।।६।।
दुर्भिक्षे समुपस्थिते प्रलयव-द्धीमत्वभाज्यन्यदा । भीतं न्यस्य महर्षिसंघमभितो, विद्यावदातः पटे ।। योऽभ्युद्धृत्य करांबुजेन नभसा, पुर्यामनैषीन्महा- । पुर्यां मंक्षु सुभिक्षधामनि तपोधाम्नामसीम्नां निधिः ॥७॥
I४०६॥
तस्माद्वजाभिधा शाखाऽभूत् कोटिकगणद्रुमे । उच्चनागरिकामुख्यशाखात्रितयसोदरा ।।८।। तस्यां च वज्रशाखायां निलीनमुनिषट्पदः । पुष्पगुच्छायितो गच्छश्चन्द्र इत्याख्ययाऽभवत् ।।९ ॥