________________
अथ प्रशस्तिः
दशमं पर्व प्रशस्तिः ।
त्रिषष्टिशलाकापुरुषचरिते ।।४०५॥
शिष्यो जंबूमहामुनेः प्रभव इत्यासीदमुष्यापि च । श्रीशय्यंभव इत्यमुष्य च यशोभद्राभिधानो मुनिः ॥ संभूतो मुनिभद्रबाहुरिति च द्वौ तस्य शिष्योत्तमौ ।
संभूतस्य च पादपद्ममधुलिट् श्रीस्थूलभद्राह्वयः ॥ १ ॥ वंशक्रमागतचतुर्दशपूर्वरत्न-कोशस्य तस्य दशपूर्वधरो महर्षिः । नाना महागिरिरिति स्थिरतागिरीन्द्रो, ज्येष्ठोऽन्तिषत्समजनिष्ट विशिष्टलब्धिः ॥२॥
शिष्योऽन्यो दशपूर्वभृन्मुनिवृषो, नाम्ना सुहस्तीत्यभूद्यत्पादांबुजसेवनात्समुदित-प्राज्यप्रबोधर्द्धिकः ।। चक्रे संप्रतिपार्थिवः प्रतिपुर-ग्रामाकरं भारते । ऽस्मिन्नः जिनचैत्यमंडितमिला-पृष्ठं समन्तादपि ॥ ३ ॥
।।४०५॥