________________
दशमं पर्व प्रशस्तिः ।
त्रिषष्टिशलाकापुरुषचरिते ।।४०८॥
SHASIRSAHARSHABHARASHRSHASHASHA
शिष्यस्तस्य च तीर्थमेकमवनेः, पावित्र्यकज्जंगमं । स्याद्वादत्रिदशापगाहिमगिरि-विश्वप्रबोधार्यमा ।। कृत्वा स्थानकवृत्तिशान्तिचरिते, प्राप्तः प्रसिद्धि परां ।
सूरि रितपःप्रभाववसतिः, श्रीदेवचन्द्रोऽभवत् ।। १४ ।। आचार्यो हेमचन्द्रोऽभूत्तत्पादांबुजषट्पदः । तत्प्रसादादधिगतज्ञानसंपन्महोदयः ।। १५ ।।
जिष्णुश्चेदिदशार्णमालवमहाराष्ट्राऽपरान्तं कुरून् । सिन्धूनन्यतमांश्च दुर्गविषयान्, दोर्वीर्यशक्त्या हरिः ॥ चौलुक्यः परमार्हतो विनयवान्, श्रीमूलराजान्वयी । तं नत्वेति कुमारपालपृथिवीपालोऽब्रवीदेकदा ।। १६ ।। पापर्द्धिद्यूतमद्यप्रभृति किमपि यन्नारकायुर्निमित्तं । तत्सर्वं निर्निमत्तोपकृतिकृतधियां, प्राप्य युष्माकमाज्ञाम् ।। स्वामिन्नुा निषिद्धं, धनमसुतमृत-स्याथ मुक्तं तथार्ह- । च्चैत्यैरुत्तसिता भूरभवदिति समः, संप्रतेः संप्रतीह ॥१७॥
४०८॥