________________
त्रिषष्टिशलाकापुरुषचा रेते ।।४०२॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
सुरा स्वनयनांभोजपयोभिः पुनरक्तया । गन्धांबुवृष्ट्या परितः सिषिचुर्वसुधातलम् ।।२५६ ॥ जगुस्तारं च गन्धर्वा गन्धर्वा इव चामराः । स्मारं स्मारं स्वामिगुणानुद्गृणन्तो मुहुर्मुहुः ।। २५७ ।। मृदंगपणवादीनि वाद्यानि शतशो दृढम् । धुसदस्ताडयामासुर्निजोरःस्थलवच्छुचा ।। २५८ ।। स्वामिनः शिबिकाऽग्रे च ननृतुः सुरयोषितः । स्खलच्चारीक्रमाः शोकान्नर्तक्योऽभिनवा इव ।। २५९ ॥ दिव्यैर्दुकूलैर्हाराद्यैर्भूषणैः पुष्पदामभिः । आनघुः शिबिकां भर्तुश्चतुर्विधदिवौकसः ।। २६०॥ श्रावकाः श्राविकाश्चापि भक्तिशोकसमाकुलाः । विदधू रासकगीतं रुदितं च सहैव हि ।।२६१ ॥ तदा साधुषु साध्वीषु चात्यन्तं विदधे पदम् । शोकः कोकनदेष्वर्कात्यये निद्रेव भूयसी ।। २६२ ।। ततश्चितायां निदधे स्वामिनोऽङ्ग पुरन्दरः । विदीर्यमाणहृदय इवाऽऽत्तः शोकशंकुना ।। २६३ ।। अग्निमनिकुमाराश्च चितामध्ये विचक्रिरे । तद्दीपनं विचक्रुश्च वायुं वायुकुमारकाः ।। २६४ ।। गन्धधूपान् घृतमधुकुंभांश्च शतशोऽपरे । ज्वलन्त्यां तत्र चित्यायां चिक्षिपुत्रिदिवौकसः ।। २६५ ॥ मांसादिषु प्रदग्धेषु क्षीरोदादाहृतैर्जलैः । चितां विध्यापयामासुझंगिति स्तनितामराः ।। २६६ ॥ शक्रेशानाव॑र्ध्वदंष्ट्रे दक्षिणादक्षिणे ततः । अधोदंष्ट्रे तु चमरबली जगृहतुः प्रभोः ।। २६७ ॥ इन्द्रास्त्वन्ये सुराश्चान्यान्दन्तानस्थीनि च प्रभोः । जगूहुस्तच्चिताभस्म नरास्तु शिवकांक्षिणः ।। २६८ ॥ तस्याश्चितायाः स्थानेऽथ स्थानं कल्याणसंपदाम् । अमरा रचयामासुः स्तूपं रत्नमयं परम् ।। २६९ ॥
अन्तिमसंस्कारः।
।।४०२॥