________________
त्रिषष्टिशलाकापुरुषचरिते ।।४०१॥
दशमं पर्व त्रयोदशः सर्गः श्रीमहावीरजिनचरितम् ।
सोऽन्येन नाम्नोपशमो देवानन्दा तु सा निशा । नैर्ऋतीत्यन्यनाम्ना तु लवोऽर्च्य इति संज्ञया ॥२४३ ।। प्राणः शुक्लाभिधानश्च स्तोकः सिद्धाभिधानकः । सर्वार्थसिद्धो मुहूर्तो नागाख्यं करणं पुनः ।। २४४ ।। तदानीं च समुत्पन्ना नाम्ना कुंथुरनुद्धरा । अस्पंदा सा न दृग्ग्राह्या स्पन्दमाना तु दृश्यते ।। २४५ ॥ संयमोऽतः परं भावी दुष्पाल इति चिन्तया । तां दृष्टवा साधवः साध्व्यो बहवोऽनशनं व्यधुः ।। २४६ ॥ निर्वाणे स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः सर्वेपि पृथिवीभुजः ।। २४७ ।। तदाप्रभृति लोकेऽपि पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात्तस्यां रात्रौ प्रवर्तते ।। २४८ ॥ जगद्गुरोर्वपुर्नत्वा बाष्पायितदृशः सुराः । अदूरे तस्थुरथ ते शोचन्तः स्वमनाथकम् ।। २४९ ।। शक्रोऽथ धैर्यमालंब्य नन्दनादिवनाहृतैः । गोशीर्षचन्दनैधोभिरेकान्तेऽरचयच्चिताम् ।। २५० ॥ क्षीरोदसागरांभोभिर्वपुरस्नपयत् प्रभोः । विलिलेप च दिव्येनांगरागेण स्वयं हरिः ।। २५१ ।। 'आमोच्य वाससी दिव्ये शक्रः स्वामिवपुः स्वयम् । उद्दधे नयनांभोभिर्भूयोऽपि स्नपयन्निव ।।२५२ ।। विमानवरकल्पायां शिबिकायां प्रभोर्वपुः । शक्रो न्यधाद् दृश्यमानः साम्रदृग्भिः सुरासुरैः ।।२५३ ॥ स्वामिशासनवन्मूर्जा तां स्वामिशिबिकामथ । कथंचिद्रुद्धशोकः सन्नुद्दधार पुरन्दरः ॥ २५४ ।। ववृषुस्तत्र पुष्पाणि दिव्यानि त्रिदिवौकसः । व्याहरन्तो जय जयेत्युच्चकैर्बन्दिवृन्दवत् ।। २५५ ॥ १ अमोच्य ।
SHARASHARASHRASHRSHRSAHASRAE
अन्तिमसंस्कारः।
I४०१॥