________________
त्रिषष्टिशलाका
पुरुषचरिते
||४०० ॥
प्रतिपालय तन्नाथ ! तस्य संक्रमणक्षणम् । स यथा त्वत्प्रभावेण विफलो भवति ग्रहः ।। २२९ ।। कुस्वप्नाः कुशकुनानि दुर्ग्रहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति ये ॥ २३० ॥ किं पुनर्यत्र साक्षात्त्वं स्वामिन् ! समवतिष्ठसे । प्रसीद तत् क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत् ॥ २३१ ॥ स्वाम्यथोचे न कोऽप्यायुः शक्र ! सन्धातुमीश्वर । विदन्नपि वदस्येवं किं तीर्थप्रेममोहितः ।। २३२ ।। प्रवर्तनाद् दुःषमायास्तीर्थबाधा भविष्यति । भवितव्यताऽनुसाराद्भस्मकस्योदयोऽप्यभूत् ॥ २३३ ॥ वज्रिणं बोधयित्वैवं सार्धषण्मासवर्जिताम् । त्रिंशदब्दीं केवलित्वे परिपाल्य जगद्गुरुः ॥ २३४ ॥ पर्यंकासननिषण्णो योगे कायस्य बादरे । स्थितो वाङ्मानसयोगावरौत्सीदथ बादरौ ।। २३५ ॥ सूक्ष्मं च वपुषो योगमास्थाय परमेश्वरः । रुरोध बादरं काययोगं योगविचक्षणः ।। २३६ ॥ तौ च सूक्ष्मौ वाङ्मानसयोगावप्यरुणत्प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्रे तृतीयकम् ॥ २३७ ॥ अपि सूक्ष्मं तनूयोगं विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रियं शुक्लध्यानं तुर्यं दधावथ ।। २३८ ॥ पंचह्नस्वाक्षरोच्चारमितकालेन तेन तु । ध्यानेन तुर्येण तुर्यपुमर्थाव्यभिचारिणा ।। २३९ ।। एरंडबीजवद्बन्धाभावादूर्ध्वगतिः प्रभुः । पथा स्वभावऋजुना मोक्षमेकमु ( उ ) पाययौ ॥ २४० ॥ नारकाणामपि तदा क्षणमेकमभूत् सुखम् । न ये सुखलवस्यापि कदाचिदपि भाजनम् ॥ २४१ ॥ वत्सरोऽभूत्तदा चन्द्रो मासस्तु प्रीतिवर्धनः । नन्दिवर्धनकः पक्षोऽग्निवेशो नाम वासरः ।। २४२ ॥
दशमं पर्व त्रयोदशः सर्गः
श्रीमहावीरजिनचरितम् ।
प्रभोः निर्वाणम् ।
||४०० ॥