________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥३९९ ॥
स्थूलभद्रोऽथ संभूतान्तेवासी सर्वपूर्वभृत् । ततोऽन्तिमा चतुःपूर्वी व्युच्छेदमुपयास्यति ।। २१५ ॥ महागिरिसुहस्त्याद्या वज्रान्ता दशपूर्विणः । ततः परं भविष्यन्ति तीर्थस्यास्य प्रवर्तकाः ।। २१६ ॥ एवमाख्याय समवसरणान्निर्ययौ प्रभुः । हस्तिपालनरेन्द्रस्य शुल्कशालां जगाम च ।। २१७ ॥ स्वामी तद्दिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य मयि स्नेहो निरत्ययः ।। २१८ ।। स एव केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति गौतमम् ।। २१९ ॥ देवशर्मा द्विजो ग्रामे परस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम ! ।। २२० ॥ यथाऽऽदिशति मे स्वामीत्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः ।। २२१ ।। तदा च कार्तिकदर्शनिशायाः पश्चिमे क्षणे । स्वातिऋक्षे वर्तमाने कृतषष्ठो जगद्गुरुः ।। २२२ ॥ कल्याणफलपाकानि पंचपंचाशतं तथा । तावन्त्यघविपाकानि जगावध्ययनानि तु ॥ २२३ ॥ षट्त्रिंशतमप्रश्नव्याकरणान्यभिधाय च । प्रधानं नामाध्ययनं जगद्गुरुरभावयत् ।। २२४ ।। स्वामिनो मोक्षसमयं विज्ञायाऽऽसनकंपतः । सुरासुरेन्द्रास्तत्रेयुः सर्वेपि सपरिच्छदाः ।। २२५ ॥ सहस्राक्षोऽश्रुपूर्णाक्षः प्रणम्याऽथ जगद्गुरुम् । विरचय्यांजलिं मूर्ध्नि ससंभ्रममदोऽवदत् ॥ २२६ ॥ गर्भे जन्मनि दीक्षायां केवले च तव प्रभो ! । हस्तोत्तरर्क्षमधुना तद्गन्ता भस्मकग्रहः ।। २२७ ॥ विपद्यमानस्य जन्मऋक्षं क्रामन् स दुर्ग्रहः । बाधिष्यते ते सन्तानं सहस्रे शरदामुभे ॥ २२८ ॥
दशमं पर्व त्रयोदशः
सर्गः
श्रीमहावीरजिनचरितम् ।
प्रभोः निर्वाणम् ।
।।३९९॥